Mahakalabhairavashtakam

Ashtakam

1

क्षेत्रपालभैरवाष्टकस्तोत्रम् अथवा महाकालभैरवाष्टकम् अथवा तीक्ष्णदंष्ट्रकालभैरवाष्टकम्॥

2

यं यं यं यक्षरूपं दशदिशिविदितं(वदनं) भूमिकम्पायमानं सं सं संहारमूर्तिं शिर(शुभ)मुकुटजटाशेखरं चन्द्रबिम्बम्। दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम्॥

3

रं रं रं रक्तवर्णं कटि(ट)कटिततनुं तीक्ष्णदंष्ट्राकरालं(विशालं) घं घं घं घोष(र)घोषं घ घ घ घ घटितं घर्झरं(घर्घरा)घोरनादम्। कं कं कं कालपाशं(रूपं) ध्रुक्ध्रुक्ध्रुकितं (धगधगधगितं) ज्वालितं कामदा(दे)हं दं दं दं दिव्यदेहं प्रणमत सततं भैरवं क्षेत्रपालम्॥

4

लं लं लं लम्बदन्तं ल ल ल ल ल(लु)लितं दीर्घजिह्वा(ह्वं)करालं धूं धूं धूं धूम्रवर्णं स्फुटविकट(कृत)मुखं भास्क(सु)रं भीमरूपम्। रुं रुं रुं रुण्डमालं रवितमनियतं (रुधिरमयमुखं) ताम्रनेत्रं करालं(विशालं) नं नं नं नग्नभूषं(रूपं) प्रणमत सततं भैरवं क्षेत्रपालम्॥

5

वं वं वं वायुवेगं नतजनसदयं ब्रह्मसारं परन्तं (वं वं वं वायुवेगं प्रलयपरिमितं ब्रह्मरूपं स्वरूपं) खं खं खं खड्गहस्तं त्रिभुवनवि(नि)लयं भास्करं भीमरूपम्। चं चं चं चं चलित्वाऽचल चल चलिता चालितं भूमिचक्रं (चं चं चं चालयन्तं चलचलचलितं चालितं भूतचक्रं) मं मं मं मायिरूपं(मायकायं) प्रणमत सततं भैरवं क्षेत्रपालम्॥

6

शं शं शं शङ्खहस्तं शशिकरधवलं मोक्षसम्पूर्णतेजं(पूर्णतजः स्वरूपं) मं मं मं मं महान्तं कुलमकुलकुलं मन्त्रगुप्तं सुनित्यम्। (भं भं भं भावरूपं कुलमकुलकुलं मन्त्रमूर्तिं स्वतत्त्वम्। ) भं भं भं भूतनाथं किलिकिलिकिलितं बालकेलिप्रधानं (भं भं भं भूतनाथं किलिकिलितवचश्चारु जिह्वालुलन्तं) अं अं अं अन्तरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम्॥

7

खं खं खं खड्गभेदं विषममृतमयं कालकालं करालं (कालकालान्धकारं) क्षं क्षं क्षं (क्षिं क्षिं क्षिं) क्षिप्रवेगं दहदहदहनं तप्त(नेत्र)सन्दीप्यमानम्। हूं हूं (हुं हुं) हूंकारनादं(हुङ्कारशब्दं) प्रकटितगहनं गर्जितैर्भू(तं भू)मिकम्पं बं बं बं बाललीलं प्रणमत सततं भैरवं क्षेत्रपालम्॥

8

सं सं सं सिद्धियोगं सकलगुणमखं(यं) देवदेवं प्रसन्नं पं पं पं पद्मनाभं हरिहरमय(वद)नं चन्द्रसूर्याग्निनेत्रम्। ऐं ऐं ऐश्वर्यनाथं सततभयहरं पूर्वदेवस्वरूपं (यं यं यं यक्षनाथं सततभयहरं सर्वदेवस्वरूपं) रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम्॥

9

हं हं हं हंसयानं हसितकलहकं मुक्तयोगाट्टहासं धं धं धं नेत्ररूपं शिरमुकुटजटाबन्धबन्धाग्रहस्तम्। टं टं टङ्कारनादं त्रिदशलटलटं कामगर्वापहारं भ्रूं भ्रूं भ्रूं भूतनाथं प्रणमत सततं भैरवं क्षेत्रपालम्॥

10

(हं हं हं हंसघोषं हसितकहहारावरौद्रट्टहासं यं यं यं यक्षरूपं शिरसि कनकजं मौकुटं सन्दधानम्। रं रं रं रङ्गरङ्गप्रहसितवदनं पिङ्गल श्यामवर्णं सं सं सं सिद्धनाथं प्रणमत सततं भैरवं क्षेत्रपालम्)॥

11

एवं वै भावयुक्तः प्रपठति मनुजो भैरवस्याष्टकं यो निर्विघ्नं दुःखनाशं भवति भयहरं शाकिनीनां विनाशम्। दस्यूनां व्याघ्रसर्पोद्भवजनितभियां जायते सर्वनाशः सर्वे नश्यन्ति दुष्टा ग्रहगणविषमा लभ्यते चेष्टसिद्धिः॥

12

इति विश्वसारोद्धारे क्षेत्रपालभैरवाष्टकस्तोत्रं सम्पूर्णम्॥