Shri Dandapani or Yaksharaja Ashtakam

Ashtakam

1

रत्नगर्भाङ्गजोद्भूत पूर्णभद्रसुशोत्तम। निर्विघ्नं कुरु मे यक्ष काशीवासं शिवाप्तये॥

2

धन्यो यक्षः पूर्णभद्रो धन्या काञ्चनकुण्डला। ययोर्जठरपीठेऽभूर्दण्डपाणे महामते॥

3

जय यक्षपते धीर! जय पिङ्गललोचन। जय पिङ्गजटाभार जय दण्डमहायुध॥

4

अविमुक्तमहाक्षेत्रसूत्रधारोग्रतापस। दण्डनायक भीमास्य जय विश्वेश्वरप्रिय॥

5

सौम्यानां सौम्यवदन भीषणानां भयानक। क्षेत्रपापधियां काल महाकाल महाप्रिय॥

6

जय प्राणद यक्षेन्द्र काशीवासान्न मोक्षद। महारत्नस्फुरद्रश्मिचयचर्चितविग्रह॥

7

महासम्भ्रान्तिजनक महोद्भान्तिप्रदायक। अभक्तानां च भक्तानां सम्भ्रान्त्युद्भ्रान्तिनाशक॥

8

प्रान्तनेपथ्यचतुर जयज्ञाननिधिप्रद। जयगौरीपदाब्जाले मोक्षेक्षणविचक्षण॥

9

यक्षराजाष्टकं पुण्यमिदं नित्यं त्रिकालतः। जपामि मैत्रावरुणे वाराणस्याप्तिकारणम्॥

10

दण्डपाण्यष्टकं धीमान् जपन्विघ्नैर्नजातुचित्। श्रद्धया परिभूयेत काशीवासफलं लभेत्॥

11

प्रादुर्भावं दण्डपाणेः श‍ृण्वन् स्तोत्रमिदं गृणन्। विपत्तिमन्यतः प्राप्य काशीं जन्मान्तरे लभेत्॥

12

इति श्रीस्कन्दप्रणीतम् श्रीदण्डपाण्यष्टकं अथवा श्रीयक्षराजाष्टकं सम्पूर्णम् ।॥