Shri Devamuraridevacharya Ashtakam

Ashtakam

1

जनानां मुक्तिदं भक्त्या खरारेजनिकीपतेः। वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम्॥

2

श्रीमदानन्दभाष्यज्ञं रामब्रह्मावबोधकम्। वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम्॥

3

रामानन्दयतीन्द्रस्य धर्माम्भोधेः सुधाकरम्। वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम्॥

4

शिष्याणां मन्त्रमालादिदिव्य संस्कारकारकम्। वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम्॥

5

सम्प्रदायरहस्यानां भव्यव्याख्यानकारकम्। वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम्॥

6

जेतारं वादिवृन्दस्य सिद्धिदं सिद्धभूपतिम्। वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम्॥

7

भक्तिदं भुक्तिदं चाथ सीतारामप्रपत्तिदम्। वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम्॥

8

श्रीरामतारकं दत्त्वा संसाराम्बुधितारकम्। वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम्॥