Shri Ganganarayanadevashtakam
Ashtakam
1
कुलस्थितान् कर्मिण उद्दिधीर्षु- र्गङ्गैव यस्मिन् कृपयाविशेष। श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम्॥
2
नरोत्तमो भक्त्यवतार एव यस्मिन् स्वभक्तिं निदधौ मुदैव। श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम्॥
3
वृन्दावने यस्य यशः प्रसिद्धं अद्यापि गीयते सतां सदःसु। श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम्॥
4
श्रीगोविन्ददेवद्विभुजत्वशंसि श्रुतिं वदन् सद्विपदं निरास्थत्। श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम्॥
5
सौशील्ययुक्तो गुणरत्नराशिः पाण्डित्यसारः प्रतिभाविवस्वान्। श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम्॥
6
जनान् कृपादृष्टिभिरेव सद्यः प्रपद्यमानान् स्वपदेऽकरोद्यः। श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम्॥
7
लोके प्रभुत्वं स्थिरभक्तियोगं यस्मै स्वयं गौरहरिर्व्यतानीत्। श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम्॥
8
वृन्दावनीयातिरहस्यभक्तेर्ज्ञानं विना यः न कुतोऽपि सिद्ध्येत्। श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम्॥
9
विश्रम्भवान् यश्चरणेषु गङ्गानारायणप्रेमाम्बुराशेः। एतत्पठेदष्टकमेकचित्तः स तत्परीवारपदं प्रयाति॥
10
इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीश्रीगङ्गानारायणदेवाष्टकं सम्पूर्णम्॥