Mahogratarashtaka Stotram

Ashtakam

1

मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे। फुल्लेन्दीवरलोचनत्रययुते कर्तीकपालोत्पले खड्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये॥

2

वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्वरि सद्यः प्राकृतगद्यपद्यरचनासर्वार्थसिद्धिप्रदे। नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निधे सौभाग्यामृतवर्षणेन कृपया सिञ्च त्वमस्मादृशम्॥

3

खर्वे गर्वसमहपूरिततनो सर्पादिभूषोज्ज्वले व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते। सद्यःकृत्तगलद्रजःपरिलसन्मुण्डद्वयीमूर्धज- ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय॥

4

मायानङ्गविकाररूपललनाबिन्द्वर्धचन्द्रात्मिके हुम्फट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः। मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा वेदनां नहि गोचरा कथमपि प्राप्तां नु तामाश्रये॥

5

त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां तस्य श्रीपरमेश्वरी त्रिनयनब्रह्मादिसौम्यात्मनः। संसाराम्बुधिमज्जने पटुतनून् देवेन्द्रमुख्यान् सुरान् मातस्त्वत्पदसेवने हि विमुखान् को मन्दधीः सेवते॥

6

मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिण- स्ते देवासुरसङ्गरे विजयिनो निःशङ्कमङ्के गताः। देवोऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः परे तत्तुल्या नियतं तथा चिरममी नाशं व्रजन्ति स्वयम्॥

7

त्वन्नामस्मरणात् पलायनपरा द्रष्टुं च शक्ता न ते भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः। दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो डाकिन्यः कुपितान्तकाश्च मनुजा मातः क्षणं भूतले॥

8

लक्ष्मीः सिद्धगणाश्च पादुकमुखाः सिद्धास्तथा वारिणां स्तम्भश्चापि रणाङ्गणे गजघटास्तम्भस्तथा मोहनम्। मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः कान्तिः कान्ततरा भवेच्च महती मूढोऽपि वाचस्पतिः॥

9

ताराष्टकमिदं रम्यं भक्तिमान् यः पठेन्नरः। प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः॥

10

लभते कवितां दिव्यां सर्वशास्त्रार्थविद् भवेत्। लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान्॥

11

कीर्ति कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत्। विख्यातिं चैव लोकेषु प्राप्यान्ते मोक्षमाप्नुयात्॥

12

इति श्रीमहोग्रताराष्टकस्तोत्रं सम्पूर्णम्॥