shrIbAlakRRiShNaprArthanAShTakam

Ashtakam

1

श्रीमद्यशोदाङ्कविहारदक्षे तत्स्तन्यसक्ते निजभक्तरक्ते। गोवर्धनप्रीतिकरे परेऽस्मिन् श्रीबालकृष्णे रतिरस्तु नित्यम्॥

2

श्रीनन्दराजाङ्गणरन्तरश्मि- ?? किर्मीरिताङ्गद्युतिरम्यरम्ये। ?? तत्रानिशं क्रीडनतत्परेऽस्मिन् श्रीबालकृष्णे रतिरस्तु नित्यम्॥

3

मुखामृतं प्राश्य पदामृतं किं वाञ्छन्ति निश्चेतुमतीव भक्ताः। आस्ये पदाङ्गुष्ठधरे ममास्मिन् श्रीबालकृष्णे रतिरस्तु नित्यम्॥

4

नानामणिव्रातविभूषणानां चापल्यतो मञ्चुलसिञ्जितैस्तैः। स्थिताञ्जितास्ये कृतमुग्धलास्ये श्रीबालकृष्णे रतिरस्तु नित्यम्॥

5

घोषेषु गोपङ्कयुतेषु गत्या प्रत्यङ्गमालिन्यविशेषहृद्ये। बाल्यात्कलालापमनोहरेऽस्मिन् श्रीबालकृष्णे रतिरस्तु नित्यम्॥

6

स्निग्धामलाकुञ्चितकुन्तलस्पृग्- वक्त्रेण भङ्गावृतपद्मशोभाम्। जहन्ति तस्मिन् मम नन्दसूनौ श्रीबालकृष्णे रतिस्तु नित्यम्॥

7

दन्तद्वयेनार्जितकुन्दकोशे द्वन्द्वोत्थशोभे नवनीरदाभे। हैयङ्गवीनाङ्कलितैकहस्ते श्रीबालकृष्णे रतिरस्तु नित्यम्॥

8

हस्तेन नेत्रादपसारितेन स्निग्धाञ्जनेनाक्तकपालदेशे। व्रजाङ्गनास्नेहसुधासुपात्रे श्रीबालकृष्णे रतिरस्तु नित्यम्॥

9

इति श्रीबालकृष्णस्य वर्णनप्रार्थनाष्टकम्। वर्णितं जीवनाख्येन गोकुलोत्सवसूनुना॥