Shri Mukundashtakam

Ashtakam

1

श्रीमुकुन्दाय नमः। बलभिदुपलकान्तिद्रोहिणि श्रीमदङ्गे घुसृणरसविलासैः सुष्ठु गान्धर्विकायाः। स्वमदननृपशोभां वर्धयन् देहराज्ये प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः॥

2

उदितविधुपरार्धज्योतिरुल्लङ्घिवक्त्रो नवतरुणिमरज्यद्बाल्यशेषातिरम्यः। परिषदि ललितालीं दोलयन् कुण्डलाभ्यां प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः॥

3

कनकनिवहशोभानन्दि पीतं नितम्बे तदुपरि नवरक्तं वस्त्रमित्थं दधानः। प्रियमिव किल वर्णं रागयुक्तं प्रियायाः प्रणयतु मम नेत्राभीष्टपूर्तिं मुकुन्दः॥

4

सुरभिकुसुमवृन्धैर्वासिताम्भःसमृद्धे प्रियसरसि निदाघे सायमालीपरीताम्। मदनजनकसेकैः खेलयन्न् एव राधां प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः॥

5

परमलमिह लब्ध्वा हन्त गान्धर्विकायाः पुलकिततनुरुच्चैरुन्मदस्तत्क्षणेन। निखिलविपिनदेशान् वासितान् एव जिघ्रन् प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः॥

6

प्रणिहितभुजदण्डः स्कन्धदेशे वराङ्ग्याः स्मितविकसितगण्डे कीर्तिदाकन्यकायाः। मनसिजजनिसौख्यं चुम्बनेनैव तन्वन् प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः॥

7

प्रमददनुजगोष्ठ्याः कोऽपि संवर्तवह्नि- र्व्रजभुवि किल पित्रोर्मूर्तिमान् स्नेहपुञ्जः। प्रथमरसमहेन्द्रः श्यामलो राधिकायाः प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः॥

8

स्वकदनकथयाङ्गीकृत्य मृद्वीं विशाखां कृतचटु ललितां तु प्रार्थन् प्रौढशीलाम्। प्रणयविधुरराधामानविध्वंसनाय प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः॥

9

परिपठति मुकुन्दस्याष्टकं काकुभिर्यः सकलविषयसङ्गात् सन्नियम्येन्द्रियाणि। व्रजनवयुवराजो दर्शयन् स्वं सराधे स्वजनगणनमध्ये तं प्रियायास्तनोति॥

10

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीमुकुन्दाष्टकं समाप्तम् ।॥