Hariharashtakam

Ashtakam

1

एकत्र श‍ृङ्गाररसानुविद्धं परत्र वैराग्यपथाधिरूढम्। परस्परस्नेहदृगेकदृश्यं वन्दामहे हारिहरस्वरूपम्॥

2

उपासनाकोटिकथानकेऽपि द्वैतोपसर्गस्य जिहीर्षयेव। अद्वैतभावार्पितकेलिकायं वन्दामहे हारिहरस्वरूपम्॥

3

हरिर्हरस्यैष हरो हरेश्च सौहार्दसीमानमुपैति बाढम्। इत्यादराद् व्यासगवीषु गीतं वन्दामहे हारिहरस्वरूपम्॥

4

एकत् लक्ष्मीललितानुकारि परत्र गौरीगुरुतापहारि। सरस्वतीगीतगुणप्रवाहं वन्दामहे हारिहरस्वरूपम्॥

5

गाङ्गैस्तरङ्गैरधौर्ध्वशोभि विशेषितं शेषविजृम्भितेन। शङ्खावदानाकलनासु कल्यं वन्दामहे हारिहरस्वरूपम्॥

6

अन्योन्यकायच्छविकल्पितेन श्यामेन गौरेण च रोचिषाढ्यम्। उत्सर्पिगङ्गायमुनोर्मिसंस्थं वन्दामहे हारिहरस्वरूपम्॥

7

पर्यन्तभीमा गुणभेददृष्टि- र्मा भूच्च नौ मायिकविग्रहेऽपि। इत्युल्लसद्वर्णविपर्ययाभं वन्दामहे हारिहरस्वरूपम्॥

8

न वस्तुतो ब्रह्मणि कल्पितेषु मायावतारेषु भिदावकाशः। इतीव सत्यापयितुं निरूढं वन्दामहे हारिहरस्वरूपम्॥

9

एतन्मायिकनामरूपरचनाप्राग्भारविस्फूर्जितं सत्यं वानृतमेव वेत्युभयथावादेऽपवादास्पदम्। सिद्धान्तं सुधियां हृदि प्रथयितुं द् वैधावसानायितं शान्तं हारिहरस्वरूपमवतात्संसारभीतेर्जगत्॥