Jaya Madhurashtakam

Ashtakam

1

एकवस्त्रे शिखिज्वाला-शिखे पद्मकरे शुभे। वामे कपाल-वहने, सर्वाभरण-भूषिते॥

2

क्रूर-दंष्ट्रे रक्तमाल्ये, अष्टादश-भुजान्विते। मङ्गले कारणे माये , मातरबल-रक्षके॥

3

कुङ्कुमाभे गुणावासे , कुल-वृद्धिकरे श्रिये, शूलं डमरुकं चैव बिभ्राणे पाशधारिणि॥

4

ओङ्कार-रूपे चिच्छक्ते, वररूपे वराश्रये। सुखासने च चामुण्डे, योगाधीश्वरि सुन्दरि॥

5

सिंहवाह-प्रिये देवि, श्यामवर्णे च शाम्भवि। महाकालि श्मशानस्थे, मातृकामय-मण्डले॥

6

सिरुवाच्चूर्-क्षेत्रवास-प्रिये शीघ्रवरप्रदे। पूर्वपुण्य-वशाद् दृष्टे, महामङ्गल-दर्शिनि॥

7

ज्योतिर्मये जये कालि, दुःखनाश-प्रिये शिवे। जन्मलाभवरे कान्ते, मधुरे ज्योतिरूपिणि॥

8

क्लेशनाशिनि सावित्रि, सर्वाभीष्ट-फलप्रदे। षोडशानुग्रहे देवि, भक्तानुग्रह-कारिणि॥

9

एकमासं शुक्रवारे, सौभाग्यं कालिदर्शनम्। शुक्रसोम-दिनं जप्त्वा, सर्वमङ्गल-भाग्यदम्। अष्ट पूर्णं जपेन्नित्यं, अष्टसिद्धि-प्रदं शुभम्॥