Pratahsmarana Ashtakam
Ashtakam
1
(वसन्ततिलका वृत्तम्) प्रातः स्मरामि वृषपुत्र-पदारविन्दं पापौघ-पापिजनपातक-पुञ्जदाहम्। मुक्तैर्महामुनिगणैर्महनीयमाद्यं सत्सङ्गिनां परममङ्गलमार्तिनाशम्॥
2
प्रातः स्मरामि सुखशान्तिनिदानहेतुं कल्याणकारि-गुणसागर-दिव्यरूपम्। स्वानेक-जन्मसुकृतै-रवलोकनीयं श्रीधर्मपुत्र-पदमात्मनि सन्दधामि॥
3
प्रातर्भजामि भजनीय-भवाब्धिसेतुं संसारिणां सकलविघ्न-विनाशदक्षम्। वेदान्तवेद्य-शुभषोडश-चिन्हलक्ष्यं ध्यायामि धर्मतनयाङ्घ्रियुगं धियाहम्॥
4
प्रातर्भजामि भवभीतिहरं वरेण्यं ध्यानासनादि-नियमैश्च विना समाधिम्। पापात्मनां सुकृतिना-मपिकारयन्तं तं नौमि धर्मतनयं शिरसा प्रणम्य॥
5
प्रातर्नमामि शिरसा निगमैक-गम्यं ब्रह्मेन्द्रशर्व-विबुधादिभिरप्यगम्यम्। उत्पत्ति-संस्थितिलयादि-निदानमेकं सञ्चिन्तयामि सततं हरिकृष्णदेवम्॥
6
प्रातर्नमाम्यमित-दुष्टनिबर्हणाय सद्धर्ममर्म-परिपालन-कारणाय। ब्राह्मण्य-वेदपथ-गोसदनुग्रहाय प्रादुर्बभूव भुवि भक्तिवृषाङ्गतोऽसौ॥
7
प्रातर्नमामि नमनीय-निजैकधाम्नो दुर्वाससा विहितशाप-निदानमेत्य। घोरे कलौ विषयि पामर-जीवजातं मुक्तैः समं समकरोदवतीर्य यस्तम्॥
8
प्रातर्नमन्ति पुलकाङ्कित-सर्वगात्राः प्रेम्णा सदैकमनसा-चलचेतसा ये। ध्यात्वा स्वकीयहृदये हरिकृष्णमूर्तिं ते यान्ति धाम विशदं क्षरभावशून्यम्॥
9
प्रातर्विहाय शयनं स्थिरचेतसा यः श्लोकाष्टकं पठति नित्यमनन्यभक्त्या। स्तोत्रं स्वमङ्गलकरं गिरिजाशिवोक्तं पुण्याहमेति निखिलं नहि तस्य विघ्नः॥
10
इति श्रीगिरिजाशङ्करशास्त्रीविरचितं प्रातःस्मरणाष्टकं सम्पूर्णम् ।॥