Shri Surya Ashtakam
Ashtakam
1
श्रीगणेशाय नमः॥
2
जगन्नाथमेकं जगत्प्राणरूपं जगत्कारणं सर्वदा रक्षकं च। जगत्स्वामिनं व्यापकं ह्येकमात्रं स्वयं ज्योतिरूपं च सूर्यं नमामि॥
3
जगन्नायकं विश्ववन्द्यं वरेण्यं जगत्स्वामिनं सूर्यमूर्तिं सुपूज्यम्। जगच्चक्षुरूपं प्रकाशं ह्यनन्तं स्वयं ज्योतिरूपं च सूर्यं नमामि॥
4
सदा ह्येकचक्रं प्रभं देवदेवं प्रदीपं महातेजरूपं च शुभ्रम्। सदैवं प्रभुं वेदवेदान्त वेद्यं स्वयं ज्योतिरूपं च सूर्यं नमामि॥
5
सदा सच्चिदानन्दमेकं परेशं सदा नेत्रयोः विद्यमान स्वरूपम्। सदा मण्डले ब्रह्मरूपं वरेण्यं स्वयं ज्योतिरूपं च सूर्यं नमामि॥
6
निजं निर्गुणं तत्त्वमस्यादि लक्ष्यं सदा निर्मलं सत्यमानन्दमेकम्। सदाऽद्यन्तशून्यं च तेजो ह्यखण्डं स्वयं ज्योतिरूपं च सूर्यं नमामि॥
7
यं रूपकं वेदविदो स्मरन्ति गच्छन्ति यन्मण्डलं तत्त्ववन्तः। गायन्ति यं रूपकं सामवेदाः स्वयं ज्योतिरूपं च सूर्यं नमामि॥
8
चतुर्बाहुकं कुण्डलं रत्न युक्तं किरीटं तथा रक्तवस्त्रं च सौम्यम्। सदा वालखिल्यादिभिः स्तुत्यरूपं स्वयं ज्योतिरूपं च सूर्यं नमामि॥
9
जगत्सर्जको ब्रह्मरूपस्त्वमेव जगत् पालको विष्णुरूपस्त्वमेव। जगन्नाशको रुद्ररूपस्त्वमेव स्वयं ज्योतिरूपं च सूर्यं नमामि॥
10
समर्पयामि सूर्याय सूर्याष्टकमिदं स्तवम्। तव दर्शनमिच्छामि प्रसन्नो भव सर्वदा॥
11
इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीसूर्याष्टकं सम्पूर्णम्॥