Shri Pragajibhaktamahima Ashtakam

Ashtakam

1

(रथोद्धता छन्द) ज्ञानधर्म-सुविरक्ति-शालिनं श्रीहरौ रतिविशिष्ट-मानसम्। धर्मयुक्त-पुरुषाधिक-प्रियं प्राग्जितं गुरुमहं नमामि तम्॥

2

ब्रह्मरूप-मखिलार्थदं विभुं योगयुक्त-मुरुपुण्य-सङ्गतम्। स्वप्रताप-निहताखिलासुरं प्राग्जितं गुरुमहं नमामि तम्॥

3

दिव्यनिर्गुण-मनोरमाकृतिं नैककोटि-रविचन्द्र-भासुरम्। द्रष्टमात्र-नरनाटकं सदा प्राग्जितं गुरुमहं नमामि तम्॥

4

अक्षराधिपति-तुल्यतां गतं स्वान्तरे हि हरिमूर्तिदर्शितम्। सर्वजीव-हृदयस्थ-वेदनं प्राग्जितं गुरुमहं नमामि तम्॥

5

जन्ममृत्यु-भवबन्धमोक्षणं प्राज्यशिष्य-शुचिबोधकं मुदा। स्वाश्रितामितजनैः सुपूजितं प्राग्जितं गुरुमहं नमामि तम्॥

6

कृष्णशासन-विलम्बनारुचिं दुष्टलोक-विकृतानय-क्षमम्। मानमत्सर-नरा-विबोधितं प्राग्जितं गुरुमहं नमामि तम्॥

7

इन्द्रियाश्व-विजितं क्षमाभृतं कामदोष-दहने पटुं भृशम्। निर्निमेष-नयनं परापहं प्राग्जितं गुरुमहं नमामि तम्॥

8

भूरि कोमलसुधा-समाक्षरं द्रग्विलास-हृत-भक्तचेतसम्। नीलकण्ठ-सुततुल्य-विग्रहं प्राग्जितं गुरुमहं नमामि तम्॥

9

(शार्दूलविक्रीडितम्) श्रीमन्निर्गुण-मूर्तये च विभवे ज्ञानोपदेष्ट्रे सदा सर्वज्ञाय समग्र-साधुगुणिने मायापराय स्वयम्। सर्वैश्वर्यवते निजाश्रितजनानां दोषहर्त्रे च मे प्राग्जित्-सद्गुरवे नमोस्तु सततं ब्रह्मात्ममुक्तायते॥

10

इति स्वामी यज्ञपुरुषदासजीमहारजविरचितं श्रीप्रागजीभक्तमहिमाष्टकं सम्पूर्णम् ।॥