Shri Purnashtakam
Ashtakam
1
भगवति भवबन्धच्छेदिनि ब्रह्मवन्द्ये शशिमुखि रुचिपूर्णे भालचन्द्रेऽन्नपूर्णे। सकलदुरितहन्त्रि स्वर्गमोक्षादिदात्रि जननि निटिलनेत्रे देवि पूर्णे प्रसीद॥
2
तव गुणगरिमाणं वर्णितुं नैव शक्ता विधि-हरि-हरदेवा नैव लोका न वेदाः। कथमहमनभिज्ञो वागतीतां स्तुवीयां जननि निटिलनेत्रे देवि पूर्णे प्रसीद॥
3
भगवति वसुकामाः स्वर्गमोक्षादिकामा- दितिजसुर-मुनीन्द्रास्त्वां भजन्त्यम्ब सर्वे। तव पदयुगभक्तिं भिक्षुकस्त्वां नमामि जननि निटिलनेत्रे देवि पूर्णे प्रसीद॥
4
यदवधि भवमातस्ते कृपा नास्ति जन्तौ तदवधि भवजालं कः समर्थो विहातुम्। भवकृतभयभीतस्त्वां शिवेऽहं प्रसन्नो जननि निटिलेनेत्रे देवि पूर्णे प्रसीद॥
5
सुरसुरपतिवन्द्ये कोटिरित्येकरम्ये निखिलभवनधन्ये कामदे कामदेहे। भवति भवपयोधस्तारिणीं त्वां नतोऽहं जननि निटिलनेत्रे देवि पूर्णे प्रसीद॥
6
त्वमिह जगति पूर्णा त्वद्विहीनं न किञ्चिद् रजनि यदि विहीनं तत्स्वरूप तु मिथ्या। इति निगदति वेदो ब्रह्मभिन्नं न सत्यं जननि निटिलनेत्रे देवि पूर्णे प्रसीद॥
7
स्वजनशरणदक्षे दक्षजे पूर्णकामे सुरहितकृतरूपे निर्विकल्पे निरीहे। श्रुतिसमुदयगीते सच्चिदानन्दरूपे जननि निटिलनेत्रे देवि पूर्णे प्रसीद॥
8
भगवति तव पुर्यां त्वां समाराध्य याचे भवतु गणपमातभक्तितस्तेऽविरामः। त्वदितरजन आर्ये पूर्णकामो न पूर्णे जननि निटिलनेत्रे देवि पूर्णे प्रसीद॥