Ihashtakam

Ashtakam

1

जालन्धरावनि-वनी-नवनीरदाभ- प्रोत्तालशैल-वलयाकलिताधिवासाम्। आशातिशायि-फलकल्पन-कल्पवल्लीं ज्वालामुखीमभिमुखी-भवनाय वन्दे॥

2

ज्येष्ठा क्वचित् क्वचिदुदारकला कनिष्ठा मध्या क्वचित् क्वचिदनुद्भव-भावभव्या। एकाप्यनेकविधया परिभाव्यमाना ज्वालामुखी सुमुख-भावमुरीकरोतु॥

3

अश्रान्त-निर्यदमलोज्वल-वारिधारा सन्धाव्यमान-भवनान्तर-जागरूका। मातर्ज्वलज्ज्वलन-शान्तशिखानुकारा रूपच्छटा जयति काचन तावकीना॥

4

मन्ये विहारकुतुकेषु शिवानुरूपं रूपं न्यरूपि खलु यत्सहसा भवत्या। ततसूचनार्थमिह शैलवनान्तराले ज्वालामुखीत्यभिधया स्फुटमुच्यतेऽद्य॥

5

सत्या ज्वलत्तनु-समुद्गत-पावकार्चि र्ज्वालामुखीत्यभिमृशन्ति पुराणमिश्राः। आस्तां वयं तु भजतां दुरितानि दग्धुं ज्वालात्मना परिणता भवतीति विद्मः॥

6

यावत्त्वदीय-चरणाम्बुजयोर्न राग स्तावत् कुतः सुखकराणि हि दर्शनानि। प्राक्पुण्य-पाकबलतः प्रसृते तु तस्मिन् नास्त्येव वस्तु भुवने सुखकृन्न यत् स्यात्॥

7

आत्मस्वरूपमिह शर्मसरूपमेव वर्वर्ति किन्तु जगदम्ब ! न यावदेतत्। उद्घाट्यते करुणया गुरुतां वहन्त्या तावत् सुखस्य कणिकापि न जायतेऽत्र॥

8

आस्तां मतिर्मम सदा तव पादमूले तां चालयेन्न चपलं मन एतदम्ब !। याचे पुनः पुनरिदं प्रणिपत्य मात- र्ज्वालामुखि ! प्रणत-वाञ्छित-सिद्धिदे ! त्वाम्॥