Chaturthashtakastharjunakrita Stotram

Ashtakam

1

%१३१ मोहतमो मम नष्टं त्वद्वचनान्नहि कष्टम्। शिष्टमिदं मयि हृष्टं हृत्परमात्मनि तुष्टम्॥

2

ज्ञानरविर्हृदि भातः स्वावरणाख्यतमोऽतः। क्वापि गतं भवदीक्षासौ खलु काममदीक्षा॥

3

क्लेशरुजां हरणेन त्वच्चरणस्मरणेन। अस्मि कृतार्थ इहेश श्रीश परेश महेश॥

4

प्रेमदुघं तव पादं को न भजेदविवादम्। दैववशाद्धृदि पेयं दर्शितवानसि मे यम्॥

5

चित्रमिदं सदमेयः सोऽप्यभवद्धृदि मेयः। देवसुरर्षिसुगेयः सोऽद्य कथं मम हेयः॥

6

आश्रिततापहरं तं पातकदैन्यहरं तम्। नौमि शिवं भगवन्तं पादमहं तव सन्तम्॥

7

यत्र जगद्भ्रम एषः कल्पित एव सशेषः। भ्रान्तिलयेऽद्वय एवावेदि मयाद्य स एव॥

8

शान्तिपदं तव पादं नौमि सुसेव्यमखेदम्। स्वार्थदमाद्यमनन्तं हापितकामधनं तम्॥

9

देवोऽभावो राद्धः सिद्धः सत्यो नित्यो बुद्धः शुद्धः। सर्वोऽपूर्वो हर्ताऽकर्ताऽभिन्नस्त्वं नः पाता माता॥

10

इति श्रीवासुदेवानन्दसरस्वतीविरचितं चतुर्थाष्टकस्थार्जुनकृतस्तोत्रं सम्पूर्णम् ।॥