Sharadamba Ashtakam

Ashtakam

1

गौरीरमासन्नमनीयदेहां वेदोक्तसद्ब्रह्मविचारसाराम्। धर्मार्थकामाञ्झटितिप्रदात्रीं मोक्षस्वरूपां प्रणमामि देवीम्॥

2

संसृतिसागरसन्तरणोडुपनादविनोदकवाद्यकरां केकयराट्तनुजामतिहारकविग्रहमञ्जुलदेवनुताम्। ब्रह्महृदि त्रिजगज्जनितुं सुनिषण्णसुमङ्गलरूपधृतां बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम्॥

3

साधकसाधनसाध्यसमन्वितमूर्तिमहं इति सारविदां क्रोधमदप्रतियत्नरतिप्रमदांश्च कुमत्सरताम्मथनीम्। आविधिसूक्ष्मसचेतनसंहननान्तसमग्रजगत्सुतिनीं बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम्॥

4

शिञ्जितमञ्जररुक्मनिबन्धितमाल्यविभूषितकण्ठयुतां कङ्कणशोभितहस्तचतुष्टयवर्णचतुष्टयधीददिताम्। संसृतिसंस्थितिसंहरणातिकृतीकरयुक्तशरीरयुतां बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम्॥

5

ब्रह्मविचाररतेषु ययाऽवगमः झरवत्प्रवहत्यनिशं तां प्रणमामि हि पञ्चदशाक्षरमन्त्रविभूषितदेहमहम्। रङ्गविरङ्गितहारविरञ्जितदिव्यकुचां घटवद्धृदयां बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम्॥

6

कुञ्जरगामिनि शारदचन्द्रविभासिनि रुद्रसहोदरि ते पादसरोजरजं कलये हृदयेऽहमधीरपतिः नितराम्। सत्कुलकामिनि कुण्डलिनि प्रमदेश्वरि सुस्वरसम्मुदिते बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम्॥

7

श‍ृङ्गधरोपरिसन्निवसस्यखिलाण्डविधायिनि वेदनुते मोक्षकवाटवितण्डसमुद्घटनातुरहस्तसरोजशुभे। अर्कविमण्डलमध्यविराजितसद्यतिमण्डलसद्विनुते बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम्॥

8

विश्रुतवाक्त्रयमध्यविलासकरीं सततं परलास्यकरीं योगरतैरपचायितनित्यपरेतिपरिष्कृतवाक्परमाम्। विश्वजगत्प्रतिभासितवाद्यरवेषु च वेदरवेषु वसन् बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम्॥

9

माधुरसुस्मितविश्वविमोहनकारणतारणसारविदां सत्यकचुम्बितबिम्बसुमेनसमं शुभदच्छदसम्मृदुलाम्। सृष्टिविधायकशक्तिसमुद्भवकारकसञ्चितरूपधृतां बिन्दुसदास्थितवाचमहं प्रणमामि गिरं परचिद्वदनाम्॥