Pandurangashtakam
Ashtakam
1
महायोगपीठे तटे भीमरथ्या वरं पुण्डरीकाय दातुं मुनीन्द्रैः। समागत्य तिष्ठन्तमानंदकंदं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥
2
तटिद्वाससं नीलमेघावभासं रमामंदिरं सुंदरं चित्प्रकाशम्। वरं त्विष्टकायां समन्यस्तपादं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥
3
प्रमाणं भवाब्धेरिदं मामकानां नितम्बः कराभ्यां धृतो येन तस्मात्। विधातुर्वसत्यै धृतो नाभिकोशः परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥
4
स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे श्रिया जुष्टकेयूरकं श्रीनिवासम्। शिवं शांतमीड्यं वरं लोकपालं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥
5
शरच्चंद्रबिंबाननं चारुहासं लसत्कुण्डलाक्रांतगण्डस्थलांतम्। जपारागबिंबाधरं कञ्जनेत्रं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥
6
किरीटोज्वलत्सर्वदिक्प्रांतभागं सुरैरर्चितं दिव्यरत्नैरनर्घैः। त्रिभङ्गाकृतिं बर्हमाल्यावतंसं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥
7
विभुं वेणुनादं चरंतं दुरंतं स्वयं लीलया गोपवेषं दधानम्। गवां वृन्दकानन्ददं चारुहासं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥
8
अजं रुक्मिणीप्राणसञ्जीवनं तं परं धाम कैवल्यमेकं तुरीयम्। प्रसन्नं प्रपन्नार्तिहं देवदेवं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥
9
स्तवं पाण्डुरंगस्य वै पुण्यदं ये पठन्त्येकचित्तेन भक्त्या च नित्यम्। भवांभोनिधिं ते वितीर्त्वान्तकाले हरेरालयं शाश्वतं प्राप्नुवन्ति॥
10
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ पाण्डुरङ्गाष्टकं सम्पूर्णम्॥