shAstuH dhyAnAShTakaM
Ashtakam
1
श्रीगणेशाय नमः। नमामि धर्मशास्तारं योगपीठस्थितं विभुम्। प्रसन्नं निर्मलं शान्तं सत्यधर्मव्रतं भजे॥
2
आश्यामकोमलविशालतनुं विचित्र- वासो वसानमरुणोत्पलवामहस्तम्। उत्तुङ्गरत्नमुकुटं कुटिलाग्रकेशं शास्तारमिष्टवरदं शरणं प्रपद्ये॥
3
हरिहरशरीरजन्मा मरकतमणिभङ्गमेचकच्छायः। विजयतु देवः शास्ता सकलजगच्चित्तमोहिनीमूर्तिः॥
4
पार्श्वस्थापत्यदारं वटविटपितलन्यस्तसिंहासनस्थम्। श्यामं कालाम्बरं च श्रितकरयुगलादर्शचिन्तामणिं च। शस्त्री निस्त्रिंशबाणासनविशिखधृतं रक्तमाल्यानुलेपं वन्दे शास्तारमीड्यं घनकुटिलबृहत्कुन्तलोदग्रमौळिम्॥
5
स्निग्धारालविसारिकुन्तलभरं सिंहासनाध्यासिनं स्फूर्जत्पत्रसुकॢप्तकुण्डलमथेष्विष्वासभृद्दोर्द्वयम्। नीलक्षौमवसं नवीनजलदश्यामं प्रभासत्यक- स्वायत्पार्श्वयुगं सुरक्तसकलाकल्पं स्मरेदार्यकम्॥
6
कोदण्डं सशरं भुजेन भुजगेन्द्राभोगभासा वहन् वामेन क्षुरिकां विपक्षदलने पक्षेण दक्षेण च। कान्त्या निर्जितनीरदः पुरभिदः क्रीडत्किराताकृतेः पुत्रोऽस्माकमनल्पनिर्मलयशाः निर्मातु शर्मानिशम्॥
7
काळाम्भोदकलाभकोमलतनुं बालेन्दुचूडं विभुं बालार्कायुतरोचिषं शरलसत्कोदण्डबाणान्वितम्। वीरश्रीरमणं रणोत्सुकमिषद्रक्ताम्बुभूषाञ्जलिं कालारातिसुतं किरातवपुषं वन्दे परं दैवतम्॥
8
साध्यं स्वपार्श्वेन विबुद्ध्य गाढं निपातयन्तं खलु साधकस्य। पादाब्जयोर्मण्डधरं त्रिनेत्रं भजेम शास्तारमभीष्टसिद्ध्यै॥
9
इति शास्तुः ध्यानाष्टकं सम्पूर्णम्॥