Shri Hathinarayanacharya Ashtakam
Ashtakam
1
मुक्तिप्रदं सद्भक्तिं दत्त्वा रामपदाब्जयोः। हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम्॥
2
सीतारामकथादक्षं रामतारकदीक्षकम्। हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम्॥
3
दर्शनान्नमताल्लोके पापिनां पापनाशकम्। हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम्॥
4
रामानन्दकृतानन्दभाष्यतत्त्वोपदेशकम्। हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम्॥
5
श्रीमद्वैष्णवधर्मस्य रक्षकं वर्धकं तथा। हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम्॥
6
शिष्याणां पञ्चसंस्कारान् विधाय योग्यताकरम्। हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम्॥
7
अद्वैतखण्डकं चाथ विशिष्टाद्वैतमण्डकम्। हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम्॥
8
मन्त्रत्रयार्थविद्वांसं विद्द्वद्त्सिद्धैश्च सेवितम्। हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम्॥