Shri Shivapuramba Ashtakam
Ashtakam
1
भगवति निरपाये भव्यलावण्यकाये दुत नतजनमाये वेदशीर्षादिगेये। शुभगुणसमुदाये मामवाद्याप्रमेये नमदरिसमवाये श्रीमदात्मेशजाये॥
2
कुलतरवरबाले कुन्दवृक्षान्तमूले नुतमुनिवरजाले वह्निकासारकूले। अरुणरुचिरचेले चित्रकोल्लासिफाले वरवितरणशीले रक्ष मां योगबाले॥
3
मुखरुचिजितसोमे मुक्तचन्द्राभिरामे दुरितभरितभूमे भूरिताशेषकामे। रतिनुतिकृतकामे रूपलावण्यसीमे सुमशररिपुवामे पावनास्यात् सदा मे॥
4
गतिविजितमतङ्गे भक्तलीलानुषङ्गे कुचमुखजितभृङ्गे मौलिराजत्द्विजाङ्गे। कलितगिरिशसङ्गे मुग्धनीलोत्पलाङ्गे (मुक्तनीलोत्पलाङ्गे) स्मरजनिसतपाङ्गे पाहि कारुण्यतुङ्गे॥
5
कृतशिवपरितोषां मञ्जुभाषाविशेषां मणिरुचिपरिवेषां दिव्यमाधुर्यभाषाम्। निहतविनतदोषां भक्तरक्षाविशेषां (निहतविनततोषां) हृदयदुरितमोषां भावये भीमघोषाम्॥
6
करसरसिजवीणामुद्यदादित्यशोणां दलितरिपुकृपाणां सिञ्जनीन्यस्तबाणाम्। दुरितविततिशाणामुद्वहत्पुष्पबाणां कलय ! नरसुराणां कामदानप्रवीणाम्॥
7
भुवनततिजनित्रीं बुद्धिनैर्मल्यधात्रीं (भुवनदधिजनित्रीं) सकलशुभभवित्रीमागमाल्याः सवित्रीम्। शुभगुणसुचरित्रीं नीलजीमूतगात्रीं सुरमुनिनुतिपात्रीं भावये पद्मनेत्रीम्॥
8
विषमशरकुलाम्बां विस्तृतोच्चन्नितम्बां मुखजितविदुबिम्बां विद्रुमाभीष्टबिम्बाम्। नतमुनिनिकुरुम्बां तुङ्गवक्षोजकुम्भां श्रयहृदय ! मदम्बां कुन्दवाटिकदम्बाम्॥
9
इति शिवपुरदेव्या अष्टकं शिष्टसम्पत्- प्रदमिदमनुवारं पठेत्भक्तियुक्तः। सकलभुवनमाता योगमाता तु तस्य चरणानलिनभक्तिं भुक्तिमाद्यां ददाति॥