shrIrAghavendrAShTakam

Ashtakam

1

अच्युतं राघवं जानकी वल्लभं कोशलाधीश्वरं रामचन्द्रं हरिम्। नित्यधामाधिपं सद्गुणाम्भोनिधिं सर्वलोकेश्वरं राघवेन्द्रं भजे॥

2

सर्वसङ्कारकं सर्वसन्धारकं सर्वसंहारकं सर्वसन्तारकम्। सर्वपं सर्वदं सर्वपूज्यं प्रभुं सर्वलोकेश्वरं राघवेन्द्रं भजे॥

3

देहिनं शेषिणं गामिनं रामिणं ह्यस्य सर्वप्रपञ्चस्य चान्तःस्थितम्। विश्वपारस्थितं विश्वरूपं तथा सर्वलोकेश्वरं राघवेन्द्रं भजे॥

4

सिन्धुना संस्तुतं सिन्धुसेतोः करं रावणघ्नं परं रक्षसामन्तकम्। पह्नजादिस्तुतं सीतया चान्वितं सर्वलोकेश्वरं राघवेन्द्रं भजे॥

5

योगिसिद्धाग्र-गण्यर्षि-सम्पूजितं पह्नजोन्पादकं वेददं वेदपम्। वेदवेद्यं च सर्वज्ञहेतुं श्रुतेः सर्वलोकेश्वरं राघवेन्द्रं भजे॥

6

दिव्यदेहं तथा दिव्यभूषान्वितं नित्यमुक्तैकसेव्यं परेशं किलम्। कारणं कार्यरूपं विशिष्टं विभुं सर्वलोकेश्वरं राघवेन्द्रं भजे॥

7

कुझ्तिऐः कुन्तलैःशोभमानं परं दिव्यभव्जेक्षणं पूर्णचन्द्राननम्। नीलमेघद्युतिं दिव्यपीताम्बरं सर्वलोकेश्वरं राघवेन्द्रं भजे॥

8

चापबाणान्वितं भुक्तिउक्तिप्रदं धर्मसंरक्षकं पापविध्वंसकम्। दीनबन्धुं परेशं दयाम्भोनिधिं सर्वलोकेश्वरं राघवेन्द्रं भजे॥

9

इति श्रीराघवेन्द्राष्टकम्॥