mRityvaShTakam

Ashtakam

1

गारुडपुराणान्तर्गतम् सूत उवाच। स्तोत्रं तत्सं प्रवक्ष्यामि मार्कण्डेयन भाषितम्। स्तोत्रम् सर्वं दामोदरं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति॥

2

शङ्खचक्रधरं देवं व्यक्तरूपिणमव्ययम्। अधोअक्षजं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति॥

3

वराहं वामनं विष्णुं नारसिंहं जनार्दनम्। माधवञ्च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति॥

4

पुरुषं पुष्करक्षेत्रबीजं पुण्यं जगत्पतिम्। लोकनाथं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति॥

5

सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम्। महायोगं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति॥

6

भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम्। विश्वरूपं प्रपन्नोऽस्मि किन्नो मूत्युः करिष्यति॥

7

इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः। स्तवं तस्य अपयातस्ततो मृत्युर्विष्णुदूतैः प्रपीडितः॥

8

इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता। प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम्॥

9

मृत्य्वष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम्। मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह॥

10

इदं यः पठते भक्त्या त्रिकालं नियतं शुचिः। नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः॥

11

हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमप्रमेयम्। विचिन्त्य सूर्यादतिराजमानं मृत्युं स योगि जितवांस्तथैव॥

12

इति श्रीगारुडे महापुराणे मार्कण्डेयकृतं मृत्य्वष्टकस्तोत्रकतह्नं नाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः Garuda Purana pUrvakhaNDa adhyAya 233 (225 varied.)॥