Ardhanarishvara Ashtakam
Ashtakam
1
अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय। निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय॥
2
प्रदीप्तरत्नोज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय। शिवप्रियायै च शिवाप्रियाय नमः शिवायै च नमः शिवाय॥
3
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय। दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय॥
4
कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय। कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय॥
5
पादारविन्दार्पितहंसकायै पादाब्जराजत्फणिनूपुराय। कलामयायै विकलामयाय नमः शिवायै च नमः शिवाय॥
6
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय। समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय॥
7
प्रफुल्लनीलोत्पललोचनायै विकासपङ्केरुहलोचनाय। जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय॥
8
अन्तर्बहिश्चोर्ध्वमधश्च मध्ये पुरश्च पश्चाच्च विदिक्षु दिक्षु। सर्वं गतायै सकलं गताय नमः शिवायै च नमः शिवाय॥
9
अर्धनारीश्वरस्तोत्रं उपमन्युकृतं त्विदम्। यः पठेच्छृणुयाद्वापि शिवलोके महीयते॥
10
इति उपमन्युकृतं अर्धनारीश्वराष्टकम्॥