Shri Dunduramacharya Ashtakam

Ashtakam

1

श्रीसीतारामभक्तानां भक्तिभावप्रदं नृणाम्। दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

2

सीतारामप्रपन्नं च श्रीमद्दामोदराभिधम्। दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

3

सदाचारं प्रदायाथ दुराचारापसारकम्। दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

4

वादिनां च विजेतारं स्वानुयायिजयावहम्। दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

5

रामानन्दस्य धर्मस्य रक्षाकर्मीण दीक्षितम्। दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

6

आनन्दभाष्यतत्वज्ञमीशानीशविवेकिनम्। दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

7

सम्प्रदायरहस्याणां त्रयाणामवबोधकम्। दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

8

सम्पादकञ्च पञ्चानां संस्काराणां महामुनिम्। दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम्॥