Shri Chandrashekhara Sarasvati SuprabhAta Ashtakam

Ashtakam

1

माया-त्रियामासु निमीलिताक्षं लोक-त्रियामासु विनिद्रमेनम्। लोकस्य रीत्या हि निबोधयामि साक्षाद्गुरुं श्रीशशि-शेखरेन्द्रम्॥

2

प्रातस्सरोज-कुसुमानि विहाय निद्रां बालारुणातप-सुवर्णमयानि नित्यम्। कूजन्मराल-कल-हंसरवैः स्तुवन्ति श्रीचन्द्रशेखर-गुरो तव सुप्रभातम्॥

3

भृङ्गाश्च पीत-मधु-मत्त-विलासिनीभिः युक्तास्सरोज-वनजात-सुरेणु-पीताः। त्वां संस्तुवन्ति मधुरैः कल-गुञ्जनैः स्वैः श्रीचन्द्रशेखर-गुरो तव सुप्रभातम्॥

4

एला-लवङ्ग-नवमालति-मल्लिकाद्याः गन्धीनि नित्यममलानि लतास्सुमानि। अर्चन्ति पल्लव-करैर्विनता गृहीत्वा श्रीचन्द्रशेखर-गुरो तव सुप्रभातम्॥

5

तुभ्यं रसाल-कदली-पनसादि-वृक्षाः कूजद्विहङ्ग-निवहैर्मधुरं स्तुवन्तः। माध्वीक-सङ्ग-मधुरं फलमुद्वहन्ति श्रीचन्द्रशेखर-गुरो तव सुप्रभातम्॥

6

कावेरि-वारि-कृत-मज्जन-पूतदेहाः वेदादि-मन्त्र-निवहैर्मुखरी-कृताशाः। विप्रास्स्तुवन्ति सततं नत-मस्तकास्त्वां श्रीचन्द्रशेखर-गुरो तव सुप्रभातम्॥

7

भक्ताश्च ते विहित-कर्म-चया विशुद्धाः भक्त्यार्जिताखिल-विशिष्ट-फलैक-हस्ताः। त्वद्दर्शनामघहरां परिलब्धुकामाः श्रीचन्द्रशेखरगुरो तव सुप्रभातम्॥

8

भूत्या सितेन वपुषा भुवि शैव-तत्त्वं शक्त्यऽर्पितेन मनसा वर-शाक्त-तत्त्वम्। नारायणेति वदता वदनेन विष्णोः तत्त्वं त्वया प्रकटितं तव सुप्रभातम्॥

9

स्वामिन् पदाब्ज-मधुपा इव भक्त-लोकाः सेवां विधातुमधुना तव जागरूकाः। उत्तिष्ठ पङ्कज-पदानि निधाय भूमौ पूर्वं वदामि विनतस्तव सुप्रभातम्॥

10

इत्यष्टकं शुभकरं कलि-कल्मषघ्नं भक्तेन केनचिदहो परिजल्पितं च। उत्थाय जल्पति नरो विनतः प्रभाते सन्मङ्गलानि लभते बहुधाऽतिशीघ्रम्॥