Pradosha Stotrashtakam

Ashtakam

1

श्री गणेशाय नमः। सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि। संसारमुल्बणमसारमवाप्य जन्तोः सारोऽयमीश्वरपदाम्बुरुहस्य सेवा॥

2

ये नार्चयन्ति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमन्ति चान्ये। एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढास्ते जन्मजन्मसु भवन्ति नरा दरिद्राः॥

3

ये वै प्रदोषसमये परमेश्वरस्य, कुर्वन्त्यनन्यमनसोंऽघ्रिसरोजपूजाम्। नित्यं प्रवृद्धधनधान्यकलत्रपुत्रसौभाग्य- सम्पदधिकास्त इहैव लोके॥

4

कैलासशैलभुवने त्रिजगज्जनित्रीं गौरीं निवेश्य कनकाचितरत्नपीठे। नृत्यं विधातुमभिवाञ्छति शूलपाणौ देवाः प्रदोषसमये नु भजन्ति सर्वे॥

5

वाग्देवी धृतवल्लकी शतमखो वेणुं दधत्पद्मज- स्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता। विष्णुः सान्द्रमृदङ्गवादनपटुर्देवाः समन्तात्स्थिताः सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम्॥

6

गन्धर्वयक्षपतगोरगसिद्धसाध्य- विद्याधरामरवराप्सरसां गणांश्च। येऽन्ये त्रिलोकनिलया सहभूतवर्गाः प्राप्ते प्रदोषसमये हरपार्श्वसंस्थाः॥

7

अतः प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्याः। तस्मिन्महेशे विधिनेज्यमाने सर्वे प्रसीदन्ति सुराधिनाथाः॥

8

एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः। प्रतिग्रहैर्वयो निन्ये न दानाद्यैः सुकर्मभिः॥

9

अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि। तद्दोषपरिहारार्थं शरणां यातु शङ्करम्॥

10

इति श्रीस्कान्दोक्तं प्रदोषस्तोत्राष्टकं सम्पूर्णम्॥