Shankarashtakam
Ashtakam
1
श्रीगणेशाय नमः। शीर्षजटागणभारं गरलाहारं समस्तसंहारम्। कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे॥
2
चन्द्रकलोज्ज्वलभालं कण्ठव्यालं जगत्त्रयीपालम्। कृतनरमस्तकमालं कालं कालस्य कोमलं वन्दे॥
3
कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम्। संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे॥
4
कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम्। विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे॥
5
त्रिपुरादिकदनुजान्तं गिरिजाकान्तं सदैव संशान्तम्। लीलाविजितकृतान्तं भान्तं स्वान्तेपु देहिनां वन्दे॥
6
सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदालयावेशम्। विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे॥
7
करतलकलितपिनाकं विगतजराकं सुकर्मणां पाकम्। परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे॥
8
भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम्। प्रमथसमूहसहायं सायं प्रातर्निरन्तरं वन्दे॥
9
यस्तुपदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम्। पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम्॥