Shri Narasimhabharatipadashtakam
Ashtakam
1
श्रीकीर्तिप्रतिभानां भवनं भविता यदीयपदनत्या तान्दासीकृतभूपान्वन्दे नरसिंहभारतीपादान्॥
2
चित्रं यन्मुखचन्द्रालोकाद्विकसन्ति चित्तपद्मानि। शिष्याणामनिशं तान्वन्दे नरसिंहभारतीपादान्॥
3
सरसान्कवितासारान्वर्षत्यास्येषु नम्रजनतायाः। यदपाङ्गवारिदस्तान्वन्दे नरसिंहभारतीपादान्॥
4
एनःपर्वतभेदे शतकोटिधुरं दधाति यद्भक्तिः। पापाब्धिबाडवांस्तान्वन्दे नरसिंहभारतीपादान्॥
5
यद्वाक्श्रुतिर्नराणां भवसागरतारणे नौका। शीलितनिगमान्तांस्तान्वन्दे नरसिंहभारतीपादान्॥
6
त्रासितकामगजेन्द्रान्स्ववचश्चातुर्यतोषितार्यजनान्। क्रोधाहिवैनतेयान्वन्दे नरसिंहभारतीपादान्॥
7
वितरणधिक्कृतकर्णान्क्षमया निर्धूतमेदिनीगर्वान्। विरतिविधूतार्यशुकान्वन्दे नरसिंहभारतीपादान्॥
8
यत्पादाम्बुजभक्तिस्तत्त्वप्रासादगमननिःश्रेणी। तान्नतसुखाब्धिचन्द्रान्वन्दे नरसिंहभारतीपादान्॥
9
भूषितविभाण्डकात्मजजनिभूमीन्कीर्तिराजितदिगन्तान्। विश्वोत्तंसितपादान्वन्दे नरसिंहभारतीपादान्॥
10
स्तुतिमेनां गुरुकृपया रचितामवनावहर्निशं पठताम्। करुणानीरधयः स्युर्हृष्टा नरसिंहभारतीपादाः॥