shrIvaishvAnarAShTakam
Ashtakam
1
समुद्भूतो भूमौ भगवदभिधानेन सदयः समुद्धारं कर्तुं कृपणमनुजानां कलियुगे। चकार स्वं मार्गं प्रकटमतुलानन्दजननं स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः॥
2
निजानन्दे मग्नः सततमथ लग्नश्च मनसा हरौ भग्नासक्तिर्जगति जगदुद्धारकरणः। कृपापारावारः परहृदयशोकापहरणः स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः॥
3
महामायामोहप्रशमनमना दोषनिचया- प्रतीतः श्रीकृष्णः प्रकटपदविद्वेषसयुजाम्। मुखध्वंसं चक्रे निगमवचनैर्मायिकनृणां स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः॥
4
प्रसिद्धैस्तैर्दोषैः सहजकलिदोषादिजनितो- यतः स्वीयैर्धर्मैरपि च रहितः सर्वमनुजः। कृतः सम्बन्धेन प्रभुचरणसेवादिसहितः स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः॥
5
विभेदं यश्चक्रे हरिभजनपूजादिविधिषु स्वमार्गीयप्राप्यं फलमपि फलेभ्यः समधिकम्। विना वैराग्यादेरपि परममोक्षैकफलदः स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः॥
6
परिक्रान्ता पृथ्वीचरणकमलैस्तीर्थमहिम- प्रसिद्ध्यर्थं स्वीयस्मरणसमवाप्त्यै निजनृणाम्। तथा दैवाञ्जीवाञ्जगति च पृथक्कर्तुमखिलान् स मे मूर्धन्यस्तां हरिवदनवैश्वानरविभुः॥
7
हरिं भावात्मानं तदखिलविहारानपि तथा समस्तां सामग्रीं मनुजपशुपक्ष्यादिसहितान्। कृपामात्रेणात्र प्रकटयति दृक् पारकरुणः स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः॥
8
परेषामासक्तिं सुतधनशरीरादिषु दृढां द्रुतं भस्मीचक्रे बहुलमपि तूलं ज्वलन इव। स्वसान्निध्यादेव व्यसनमपि कृष्णोऽपि विदधत् स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः॥
9
इति श्रीमत्प्रोक्तं हरिचरणदासेन हरिणा- ऽष्टकं स्वाचार्यणां पठति परमप्रेमसहितः। जनस्तस्य स्याद्वै हरिवदनवैश्वानरपदे परो भावस्तूर्णं सकलफलरूपस्तदधिकः॥