Painganadu Ganapatishastrikritam Shiva Ashtakam

Ashtakam

1

ॐ श्रीगणेशाय नमः। (व्युत्पत्तिर्नैव शास्त्रेषु तथा काव्येषु चापि न। केवलं शिवपादाब्जस्मरणात् कधयाम्यहम्॥

2

विनम्य विपथाग्रजीविहितलिप्सवीक्षालवं विनम्रजनसन्ततेर्विहितसन्ततज्ञानकम्। विभुं विमलयामिनीविधुकिशोरकेशावलिं गणेशविदुषाधुना निजकृतिस्तु लेलिख्यते॥

3

) पाकारिप्रभृतीन् सुरानवति यो नाकारिसङ्घात् सदा पाकात् पुण्यकृतेः स्वपादयुगलीस्वाकाङ्क्षचित्ताय यः। स्वाकारं ददते सतोषमधुनोमाकामुक त्वं प्रभो मा कार्षीर्मयि कोपलेशमपि यल्लोकानुकम्पी भवान्॥

4

चन्द्रो यन्मुखकान्तितुल्य इति तं लोकत्रये दुर्लभं मत्वा द्रष्टुमतीव तोषसहितो विष्णुः परामृश्य च। अक्ष्येवैकमचीकॢपत् तमधुना पापौघभृङ्गावली- भेदे वज्रधरः स्वयं शिवमिदं वित्तं हि जिज्ञासते॥

5

चन्द्रं वीक्ष्य यदीयमाननमिति भ्रान्त्या सरोजव्रजो भामां प्राचि भरिष्यति च्छविभिरित्यालोच्य भीत्याकुलः। आकाङ्क्षन्निव तत् प्र(भातमधुना)प्यास्ते नमन्मूर्धकं तत्तादृग्वदनाम्बुजाय शिव ते वीधीय (?) नित्यं नतिम्॥

6

पादाम्भोजयुगे हि यस्य विनमह्मादिदेवच्छटा- कोटीरस्थितदेवराण्मणिगणस्फूर्युत्थिताच्छच्छविः। तादर्थ्याम्बुजसङ्घसङ्गिविलसद्भृङ्गार्दनाङ्गोऽपि मां सोऽयं मन्दिरयत्यमन्दकुतुकादानन्दकन्दो मनः॥

7

यत्पादाब्जयुगं स्वकान्तिसमतावाञ्छं सरोजव्रजं जित्वा स्वच्छविभिर्मृणालनिवहव्याजैरहो रश्मिभिः। बद्धाग(ज्जनिमा)प तज्जलनिधौ भक्तेष्टदातः प्रभो स्वच्छन्दं विजरीहरीतु मम हृत्सौधे पदाब्जं तव॥

8

यस्त्वल्लोचनकान्तिनीलजलदः पापौघदावानलं दाम्यन् निश्चलभक्तियुक्तजनताहृच्चातकानां मुदा। आत्मानन्दमयीं तनोति सततं तृप्तिं दयाम्भोनिधे तृष्णादग्धमनन्यदेवशरणं हृच्चातकं पातु नः॥

9

यस्येशस्य दिनेशरूपमपि यन्नेत्रं दयाशीतल- च्छायं स्वस्य हि रश्मिभिर्विनतहृत्पाथोजसङ्घं सदा। सन्तोषेण महाविकास भरितं सन्तन्यते शङ्कर त्वत्तत्तादृशलोचनेन मम हृत्पद्मं तथा तन्यताम्॥

10

लीलालोलकटाक्षदग्वमदनः कालान्तकः सर्परा- ण्मालालङ्कृतसर्वगात्ररुचिरो हालाहलोद्यद्गलः। चूलानन्तशिरःकिरीटसुरराण्मौलीविराजत्पदो फालालङ्कृतभूतिरप्युपनिषज्जालस्तुतः पातु नः॥

11

रसलेशविवर्जितां प्रभो नुतिनाम्नीमधुना प्रलापवाचम्। स्तुतिमेव गृहाण धूर्जटे निजभक्ताधिकतोषदानदक्ष॥