Sarvamangala Ashtakam

Ashtakam

1

श्रीगणेशाय नमः। लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्यासनः। ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः स त्रैलोक्यकुटुम्बपालनपरः कुर्यात् सदा मङ्गलम्॥

2

ब्रह्मा वायुगिरीशशेषगरुडा देवेन्द्रकामौ गुरुश्- चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ। नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः सस्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम्॥

3

विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः। माण्डवयो जमदग्निगौतमभरद्वाजादयस्तापसाः श्रीमद्विश्णुपदाब्जभक्तिनिरताः कुर्वन्तु वो मङ्गलम्॥

4

मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदुः। इक्ष्वाकुश्च विभीशणश्च भरतश्चोत्तानपादध्रुवा- वित्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु वो मङ्गलम्॥

5

श्रीमेरुर्हिमवाँश्च मन्दरगिरिः कैलासशैलस्तथा माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः। सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमन्तका- वित्याद्या भुवि भूभृतः प्रतिदिनं कुर्वन्तु वो मङ्गलम्॥

6

गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा कृष्णा भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती। कावेरीकपिलाप्रयागविनतावेत्रावतीत्यादयो नद्यः श्रीहरिपादपङ्कजभवाः (प्रतिदिनं) कुर्वन्तु वो मङ्गलम्॥

7

वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गा पुराणान्विता वेदान्ता अपि मन्त्र-तन्त्रसहितास्तर्कस्मृतीनां गणाः। काव्यालङ्कृतिनीतिनाटकगणाः शब्दाश्च नानाविधाः श्रीविष्णोर्गुणराशिकीर्तनकराः (प्रतिदिनं) कुर्वन्तु वो मङ्गलम्॥

8

आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतस्तद्गणाः। मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयाः सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु वो मङ्गलम्॥

9

इत्येतद्वरमङ्गलाष्टकमिदं श्रीराजराजेश्वरे- णाऽऽखातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम्। माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा याः पठेद्- धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवाः॥