Shri Giridhari Ashtakam

Ashtakam

1

त्र्यैलोक्यलक्ष्मीमदभृत्सुरेश्वरो यदा घनैरन्तकरैर्ववर्ष। तदाकरोद्यः स्वबलेन रक्षणं तं गोपबालं गिरिधारिणं व्रजे॥

2

यः पाययन्तीमधिरुह्य पूतनां स्तन्यं पपौ प्राणपरायणः शिशुः। जघान वातायितदैत्यपुङ्गवं तं गोपबालं गिरिधारिणं व्रजे॥

3

नन्दव्रजं यः स्वरुचेन्दिरालयं चक्रे दिवीशां दिवि मोहवृद्धये। गोगोपगोपीजनसर्वसौख्यकृत्तं गोपबालं गिरिधारिणं व्रजे॥

4

यं कामदोग्घ्री गगनाहृतैर्जलैः स्वज्ञातिराज्ये मुदिताभ्यषिञ्चत्। गोविन्दनामोत्सवकृद्व्रजौकसां तं गोपबालं गिरिधारिणं भजे॥

5

यस्याननाब्जं व्रजसुन्दरीजना दिनक्षये लोचनषट्पदैर्मुदा। पिबन्त्यधीरा विरहातुरा भृशं तं गोपबालं गिरिधारिणं भजे॥

6

वृन्दावने निर्जरवृन्दवन्दिते गाश्चारयन्यः कलवेणुनिःस्वनः। गोपाङ्गनाचित्तविमोहमन्मथस्तं गोपबालं गिरिधारिणं भजे॥

7

यः स्वात्मलीलारसदित्सया सतामाविश्चकाराऽग्निकुमारविग्रहम्। श्रीवल्लभाध्वानुसृतैकपालकस्तं गोपबालं गिरिधारिणं भजे॥

8

गोपेन्द्रसूनोर्गिरिधारिणोऽष्टकं पठेदिदंयस्तदनन्यमानसः। समुच्यते दुःखमहार्णवाद्भृशं प्राप्नोति दास्यं गिरिधारिणे ध्रुवम्॥

9

प्रणम्य सम्प्रार्थयते तवाग्रतस्त्वदङ्घ्रिरेणुं रघुनाथनामकः। श्रीविठ्ठ्लानुग्रहलब्धसन्मतिस्तत्पूरयैतस्य मनोरथार्णवम्॥

10

इति श्रीरघुनाथप्रभुकृतं समाप्तमिदं श्रीगिरिराजधार्यष्टकम्॥