Ramashtakam from Ananda Ramayana
Ashtakam
1
अथ रामाष्टकम्। श्रीशिव उवाच। सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम्। कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि॥
2
संसारसारं निगमप्रचारं धर्मावतारं हृतभूमिभारम्। सदाविकारं सुखसिन्धुसारं श्रीरामचन्द्रं सततं नमामि॥
3
लक्ष्मीविलासं जगतां निवासं लङ्काविनाशं भुवनप्रकाशम्। भूदेववासं शरदिन्दुहासं श्रीरामचन्द्रं सततं नमामि॥
4
मन्दारमालं वचने रसालं गुणैर्विशालं हतसप्ततालम्। क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि॥
5
वेदान्तगानं सकलैः समानं हृतारिमानं त्रिदशप्रधानम्। गजेन्द्रयानं विगतावसानं श्रीरामचन्द्रं सततं नमामि॥
6
श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामम्। विश्वप्रणामं कृतभक्तकामं श्रीरामचन्द्रं सततं नमामि॥
7
लीलाशरीरं रणरङ्गधीरं विश्वैकसारं रघुवंशहारम्। गम्भीरनादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि॥
8
खले कृतान्तं स्वजने विनीतं सामोपगीतं मनसा प्रतीतम्। रागेण गीतं वचनादतीतं श्रीरामचन्द्रं सततं नमामि॥
9
श्रीरामचन्द्रस्य वराष्टकं त्वां मयेरितं देवि मनोहरं ये। पठन्ति शृण्वन्ति गृणन्ति भक्त्या ते स्वीयकामान् प्रलभन्ति नित्यम्॥
10
इति शतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये सारकाण्डे युद्धचरिते द्वादशसर्गान्तर्गतं श्रीरामाष्टकं समाप्तम्॥