Tirthashtakam

Ashtakam

1

मातृतीर्थम्-- नास्ति मातृसमं तीर्थं पुत्राणां तारणाय च। हितायाऽत्र परत्रार्थं यैस्तु माता प्रपूजिता॥

2

पितृतीर्थम्-- वेदैरपि च किं पुत्र ! पिता येन प्रपूजितः। एष पुत्रस्य वै धर्मस्तथा तीर्थं नरेष्विह॥

3

गुरुतीर्थम्-- अज्ञान-तिमिरान्धत्वं गुरुः शीघ्रं प्रणाशयेत्। तस्मात् गुरुः परं तीर्थं शिष्याणां हितचिन्तकः॥

4

भक्ततीर्थम्-- तीर्थभूतो हरेर्भक्तः स्वयं पूतश्च पावकः। येन भस्मीकृतो लोके पापपुञ्जो हि सुव्रत!॥

5

पतितीर्थम्-- प्रयाग-पुष्करसमौ पत्युः पादौ स्मृतावतः। स्नातव्यं सततं स्त्रीभिस्तीर्थभूते सरोवरे॥

6

पत्नीतीर्थम्-- नास्ति पत्नीसमं तीर्थं भूतले तारणाय तु। यस्य गेहे सती नारी स धन्यः पुरुषो मतः॥

7

मित्रतीर्थम्-- सम्पत्तौ च विपत्तौ च यस्तिष्ठति सदाऽत्र वै। मित्रतीर्थं परं लोके मुनिभिः परिभाषितम्॥

8

विप्रतीर्थम्-- जङ्गमं विप्रतीर्थं तद् वेदपूतं च निर्मलम्। यस्य वाक्-सलिलेनैव शुद्ध्यन्ति मलिनो जनाः॥

9

तीर्थाष्टकमिदं पुण्यं श्री''द्विजेन्द्र''विनिर्मितम्। सेवितव्यं सदा भक्त्या भुक्ति-मुक्तिप्रदायकम्॥