bhramarAmbAShTakam shrImAtRistavaH shrIshailabhagavatyaShTakam

Ashtakam

1

चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्कचूडामणिं चारुस्मेरमुखां चराचरजगत्संरक्षणीं तत्पदाम्। चञ्च्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये॥

2

कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं कर्पूरद्रावमिक्षचूर्णखदिरामोदोल्लसद्वीटिकाम्। लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये॥

3

राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम्। राजीवायतमन्दमण्डितकुचां राजाधिराजेश्वरीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये॥

4

षट्तारां गणदीपिकां शिवसतीं षड्वैरिवर्गापहां षट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम्। षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये॥

5

श्रीनाथादृतपालितात्रिभुवनां श्रीचक्रसंचारिणीं ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्यादृताम्। दीनानामातिवेलभाग्यजननीं दिव्याम्बरालंकृतां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये॥

6

लावण्याधिकभूषिताङ्गलतिकां लाक्षालसद्रागिणीं सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम्। भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये॥

7

धन्यां सोमविभावनीयचरितां धाराधरश्यामलां मुन्याराधनमेधिनीं सुमवतां मुक्तिप्रदानव्रताम्। कन्यापूजनपुप्रसन्नहृदयां काञ्चीलसन्मध्यमां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये॥

8

कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम्। कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये॥

9

गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां गम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम्। गङ्गागौत्मगर्गसंनुतपदां गां गौतमीं गोमतीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये॥

10

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ भ्रमराम्बाष्टकं सम्पूर्णम्॥