Madhvamunipratapa Ashtakam

Ashtakam

1

क्वचित्सुरान्शास्ति सुराङ्गनाः क्वचित् क्वचिच्च गन्धर्वपतीनृषीन् क्वचित्। क्वचित्पितॄन् क्वापि नृपान्नरान्क्वचि- च्छुभानयं मध्वमुनिः प्रतापवान्॥

2

क्वचित्प्रभुं स्तौति समीक्षते क्वचित् क्वचित्स्मरन्नृत्यति गायति क्वचित्। क्वचित्तमाराधयतीश्वरं क्वचि- न्नमत्ययं मध्वमुनिः प्रतापवान्॥

3

क्वचिद्धरेर्जीवजडातिभिन्नतां क्वचित्प्रभोः सर्वगुणैश्च पूर्णताम्। क्वचिच्च तस्याखिलदोषशून्यतां वदत्ययं मध्वमुनिः प्रतापवान्॥

4

क्वचिच्च विष्णोरुरुचित्ररूपतां क्वचिच्च मुक्ताखिलजीवयन्तृताम्। क्वचिच्च तस्याव्ययचिन्मयाकृतिं व्यनक्त्ययं मध्वमुनिः प्रतापवान्॥

5

क्वचित्स्मृतीः क्वापि पुराणसंहिताः प्रवक्ति सूत्रं क्वचिदागमोक्तिभिः। क्वचिच्च धर्मं चरति क्वचिच्च तं ब्रवीत्ययं मध्वमुनिः प्रतापवान्॥

6

क्वचिच्च चार्वाककणादगौतम- प्रभाकराद्वैतितथागतादिकैः। कृतं मतं युक्तिशतैर्विखण्डयन् विभात्ययं मध्वमुनिः प्रतापवान्॥

7

परान्पराभावयति क्वचित्क्वचि- न्निजान्कथायां कुशलीकरोत्ययम्। क्वचिद्बुधान्वैष्णवमार्गमागतान् पुनात्ययं मध्वमुनिः प्रतापवान्॥

8

क्वचित्समस्तागमनिर्णयोदिताः कृतीः कृता व्याकुरुते सभान्तरे। प्रहृष्टरोमा नृहरौ क्वचिन्मनो युनक्त्ययं मध्वमुनिः प्रतापवान्॥

9

इदं प्रतापाष्टकमच्युतप्रिय- श्रुतिप्रतीतामलमध्वयोगिनः। यतिस्तदीयोऽकृत वादिराज उदारधीस्तस्य कृपाफलाप्तये॥