Eight Verses Praising Mahatma Gandhi mohanadAsa aShTakam

Ashtakam

1

रोगैः समाकुले देशे पापे वृद्धिङ्गते तथा परैर्गृहीत सर्वस्वे जने निर्धनतां गते॥

2

ममायं देश इत्येवं भावेऽप्याङ्ग्लैर्विनाशिते गान्धी महाशयो लोकं रक्षितुं जनिमग्रहीत्॥

3

कृष्णेन यत्कृतं कर्म यत्कृतं गौतमेन च तदेव मोहनः कर्तुमुधुक्तो वर्ततेऽधुना॥

4

अर्थान्धैः परिपीडितान्गतबलान्दीनाञ्जनानुद्धरन् तप्त्वा तीव्रतमं तपः परहितं कर्तुं सदा सोद्यमः। अल्पाकल्पवृतो विकल्परहितः सङ्कल्पशक्त्यायुतः जीयाद्भारतवर्षभक्तप्रवरो गान्धीः सदा शुद्धधीः॥

5

भारतोद्धरणार्थं यो जातो जगति धर्मवित्। विना शस्त्रैर्जयो यस्य मोहनं तं नमाम्यहम्॥

6

मोहनं शत्रुसङ्घानां मोहनं सुहृदां तथा। निस्त्रैगुण्यं जितात्मानं मोहनं प्रणमाम्यहम्॥

7

धर्मयुद्धे जना येन वयं सर्वे निमन्त्रिताः। सोऽयमद्य पुरोऽस्माकं वर्तते पुरुषर्षभः॥

8

कुत्वा शिरसि तस्याज्ञां तद्वर्त्मपरिगृह्य च। ईप्सितं प्राप्नुयामेति दिशतु कमलापतिः॥