Kamala Ashtakam

Ashtakam

1

न्यङ्कावरातिभयशङ्काकुले धृतदृगङ्कायतिः प्रणमतां शङ्काकलङ्कयुतपङ्कायताश्मशितटङ्कायितस्वचरिता। त्वं कालदेशपदशङ्कातिपातिपतिसङ्काश वैभवयुता शं काममातरनिशं कामनीयमिह सङ्काशयाशु कृपया॥

2

आचान्तरङ्गदलिमोचान्तरङ्गरुचिवाचां तरङ्गगतिभिः काचाटनाय कटुवाचाटभावयुतनीचाटनं न कलये। वाचामगोचरसदाचारसूरिजनताचातुरीविवृतये प्राचां गतिं कुशलवाचां जगज्जननि याचामि देवि भवतीम्॥

3

चेटीकृतामरवधूटीकराग्रधृतपेटीपुटार्घ्यसुमनो- वीटीदलक्रमुकपाटीरपङ्कनवशाटीकृताङ्गरचना। खेटीकमानशतकोटीकराब्जजजटाटीरवन्दितपदा या टीकतेऽब्जवनमाटीकतां हृदयवाटीमतीव कमला॥

4

स्वान्तान्तरालकृतकान्तागमान्तशतशान्तान्तराघनिकराः शान्तार्थकान्तवकृतान्ता भजन्ति हृदि दान्ता दुरन्ततपसा। यां तानतापभवतान्तातिभीतजगतां तापनोदनपटुं मां तारयत्वशुभकान्तारतोऽद्य हरिकान्ताकटाक्षलहरी॥

5

यां भावुका मनसि सम्भावयन्ति भवसम्भावनापहृतये त्वं भासि लक्ष्मि सततं भाव्ययद्भवनसम्भावनादिविधये। जम्भारिसम्पदुपलम्भादिकारणमहं भाव्यमङ्घ्रियुगलं सम्भावये श्रुतिषु सम्भाषितं वचसि सम्भाष्य तस्य तव च॥

6

दूरावधूतमधुधारागिरोच्चकुचभारानताङ्गलतिका- साराङ्गलिप्तघनसारार्द्रकुङ्कुमरसा राजहंसगमना। वैराकरस्मरविकारापसंसरणवाराशिमग्रमनसः श्रीराविरस्तु धुरि ताराय मे गुरुभिरारधिता भगवती॥

7

श्रीवासधूपकनदावासदीपरुचिरावासभूपरिसरा श्रीवासदेशलसदावापकाशरदभावाभकेशनिकरा। श्रीवासुदेवरमणी वामदेवविधिदेवाधिपावनपरा श्रीवासवस्तुनरदेवाहतस्तुतिसभावा मुदेऽस्तु सुतराम्॥

8

भाषादिदेवकुलयोषामणिस्तवनघोषाञ्चितस्वसविधा दोषाकुले जगति पोषाकुला सपदि शेषाहि शायिदयिता। दोषालयस्य मम दोषानपोह्य गतदोषाभिनन्द्यमहिमा शेषाशनाहिरिपुशेषादिसम्पद विशेषां ददातु विभवान्॥