shrIgopAlAShTakam
Ashtakam
1
श्री गणेशाय नमः॥
2
यस्माद्विश्वं जातमिदं चित्रमतर्क्यं यस्मिन्नानन्दात्मनि नित्यं रमते वै। यत्रान्ते संयाति लयं चैतदशेषं तं गोपालं सन्ततकालं प्रति वन्दे॥
3
यस्याज्ञानाज्जन्मजरारोगकदम्बं ज्ञाते यस्मिन्नश्यति तत्सर्वमिहाशु। गत्वा यत्रायाति पुनर्नो भवभूमिं तं गोपालं सन्ततकालं प्रति वन्दे॥
4
तिष्ठन्नन्तर्यो यमयत्येतदजस्रं यं कश्चिन्नो वेद जनोऽप्यात्मनि सन्तम्। सर्वं यस्येदं च वशे तिष्ठति विश्वं तं गोपालं सन्ततकालं प्रति वन्दे॥
5
धर्मोऽधर्मेणेह तिरस्कारमुपैति काले यस्मिन्मत्स्यमुखैश्चारुचरित्रैः। नानारूपैः पाति तदा योऽवनिबिम्बं तं गोपालं सन्ततकालं प्रति वन्दे॥
6
प्राणायामैर्ध्वस्तसमस्तेन्द्रियदोषा रुध्वा चित्तं यं हृदि पश्यन्ति समाधौ। ज्योतीरूपं योगिजनामोदनिमग्नास्तं गोपालं सन्ततकालं प्रति वन्दे॥
7
भानुश्चन्द्रश्चोडुगणैश्चैव हुताशो यस्मिन्नैवाभाति तडिच्चापि कदापि। यद्भासा चाभाति समस्तं जगदेतत् तं गोपालं सन्ततकालं प्रति वन्दे॥
8
सत्यज्ञानं मोदमवोचुर्निगमा यं यो ब्रह्मेन्द्रादित्यगिरीशार्चितपादः। शेतेऽनन्तोऽनन्ततनावम्बुनिधौ यस्तं गोपालं सन्ततकालं प्रति वन्दे॥
9
शैवाः प्राहुर्यं शिवमन्ये गणनाथं शक्तिं चैकेऽर्कं च तथान्ये मतिभेदात्। नानाकारैर्भाति य एकोऽखिलशक्तिस्तं गोपालं सन्ततकालं प्रति वन्दे॥
10
श्रीमद्गोपालाष्टकमेतत् समधीते भक्त्या नित्यं यो मनुजो वै स्थिरचेताः। हित्वा तूर्णं पापकलापं स समेति पुण्यं विष्णोर्धाम यतो नैव निपातः॥
11
इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्री गोपालाष्टकं सम्पूर्णम्॥