Bhairavivallabhashtakam
Ashtakam
1
नमो भूतनाथं नमो प्रेतनाथं नमः कालकालं नमो रुद्र(ण्ड)मालम्। नमः कालिकाप्रेमलोलं करालं भजे भैरवीवल्लभं भैरवेन्द्रम्॥
2
सदा शूलहस्तं सदा खड्गचालं सदा तन्त्रसिद्धं सदा शुभ्रभस्मम्। सदा ध्यानयुक्तं सदा ज्ञानयुक्तं भजे भैरवीवल्लभं भैरवेन्द्रम्॥
3
शिवारक्षकारां महाकाशीवासं शरीरं सुशोभं विमुक्तं त्रिपुण्ड्रम्। पिशाचादिनाथं पशूनां प्रतिष्ठं भजे भैरवीवल्लभं भैरवेन्द्रम्॥
4
फणीनागकण्ठे भुजङ्गाद्यनेकं गलेरुण्डमालं महावीरधीरम्। कटिव्याघ्रचर्मं चिताभस्मलेपं भजे भैरवीवल्लभं भैरवेन्द्रम्॥
5
परमशान्तिदायं सुसिद्धिप्रदायं महाकालरूपं योगिन्यादीभूषम्। गजारूढदेवं त्रिकालं सुदर्शं भजे भैरवीवल्लभं भैरवेन्द्रम्॥
6
करे शूलधारं महाकष्टनाशं स्वभक्तादिचित्तं सदा वासमानम्। महाब्रह्ममानं महारुद्ररूपं भजे भैरवीवल्लभं भैरवेन्द्रम्॥
7
रोषं विदारं परमपुण्यकारं कपालं निवासं सदाभावशुद्धम्। गणाधीश ईशं पुराविश्व ईशं भजे भैरवीवल्लभं भैरवेन्द्रम्॥
8
मुनिवृन्दसेव्यं पुराणस्य पुरुषं सदा ध्यानलीनं प्रभायुक्तदेवम्। धरं पापपाशं महाऽट्टहासं भजे भैरवीवल्लभं भैरवेन्द्रम्॥
9
सदा भावनाथं सदा सेव्यमानं सदा भक्तिदेवं सदा पूज्यमानम्। महातीर्थवासं सदासेव्यमेकं भजे भैरवीवल्लभं भैरवेन्द्रम्॥
10
इति भैरवीवल्लभाष्टकं सम्पूर्णम्॥