Radha Ashtakam
Ashtakam
1
नमस्ते श्रियै राधिकायै परायै नमस्ते नमस्ते मुकुन्दप्रियायै। सदानन्दरूपे प्रसीद त्वमन्तः- प्रकाशे स्फुरन्ती मुकुन्देन सार्धम्॥
2
स्ववासोपहारं यशोदासुतं वा स्वदध्यादिचौरं समाराधयन्तीम्। स्वदाम्नोदरे या बबन्धाशु नीव्या प्रपद्ये नु दामोदरप्रेयसीं ताम्॥
3
दुराराध्यमाराध्य कृष्णं वशे तं महाप्रेमपूरेण राधाभिधाभूः। स्वयं नामकीर्त्या हरौ प्रेम यच्छत् प्रपन्नाय मे कृष्णरूपे समक्षम्॥
4
मुकुन्दस्त्वया प्रेमडोरेण बद्धः पतङ्गो यथा त्वामनुभ्राम्यमाणः। उपक्रीडयन् हार्दमेवानुगच्छन् कृपावर्तते कारयातो मयीष्टिम्॥
5
व्रजन्तीं स्ववृन्दावने नित्यकालं मुकुन्देन साकं विधायाङ्कमालाम्। समामोक्ष्यमाणानुकम्पाकटाक्षैः श्रियं चिन्तये सच्चिदानन्दरूपाम्॥
6
मुकुन्दानुरागेण रोमाञ्चिताङ्गै- रहं वेप्यमानां तनुस्वेदबिन्दुम्। महाहार्दवृष्ट्या कृपापाङ्गदृष्ट्या समालोकयन्तीं कदा मां विचक्षे॥
7
यद् अङ्कावलोके महालालसौघं मुकुन्दः करोति स्वयं ध्येयपादः। पदं राधिके ते सदा दर्शयान्तर्- हृदिस्थं नमन्तं किरद्रोचिषं माम्॥
8
सदा राधिकानाम जिह्वाग्रतः स्यात् सदा राधिकारूपमक्ष्यग्र आस्ताम्। श्रुतौ राधिकाकीर्तिरन्तःस्वभावे गुणा राधिकायाः श्रिया एतद् ईहे॥
9
इदं त्वष्टकं राधिकायाः प्रियायाः पठेयुः सदैवं हि दामोदरस्य। सुतिष्ठन्ति वृन्दावने कृष्णधाम्नि सखीमूर्तयो युग्मसेवानुकूलाः॥
10
इति श्रीनिम्बार्काचार्यविरचितम् राधाष्टकं सम्पूर्णम् ।॥