Trirangashtakam Octad on Tricolour
Ashtakam
1
शीर्षांशे रमणीयकुङ्कुमनिभो वर्णो सुशौर्यात्मको मध्यांशे धवलः प्रशान्तचरितो यस्याः परिभ्राजते। निम्नांशे हरितं समृद्धिभरितं चिह्नं मनोरञ्जकं वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा॥
2
यस्यां राजति सुन्दरं बहुगुणं चक्रं स्वरापूरितं द्यौर्वर्णाकलितं महायुधसमं नित्यं रिपुत्रासदम्। हिन्दुस्थानविकासवर्धनकरं राष्ट्रस्य शौर्यास्पदं वन्दे भारतभाग्यवर्धनरतां नस्तां त्रिरङ्गां सदा॥
3
मुक्ताकाशतले यदा चलति सा वै भारतीया मुदा सङ्गीतेन तदीयभव्यललितं कुर्वन्ति सुस्वागतम्। तद्भावं सुखदं विकासभरितं जानाति राष्ट्रप्रियो वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा॥
4
या स्तम्बाद् गगने प्रखेलति मुहू राष्ट्रोन्नतिस्थापिनी यस्या रूपगुणादिको विजयते चित्तं नराणां क्षणात्। यां दृष्ट्वा परदेशशासकगणः शङ्काकुलः सर्वदा वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा॥
5
या भूमौ परिराजते जनपदे कार्यालये वेश्मनि संस्थाने जनमानसे प्रतिकरे यानेद्य भव्योत्सवे। तोये पोतगणे पुनश्च नभसि व्योमायने भासते वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा॥
6
राष्ट्रं राष्ट्रपतिश्च राष्ट्रजनता राष्ट्रस्य मन्त्री वरो राष्ट्रामात्यगणः प्रधानसचिवो राष्ट्रीयमन्त्रालयः। नेतारो हि दलस्य शासकगणो गायन्ति नत्वापि यां वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा॥
7
राज्याणां प्रमुखाधिकारिनिकरस्तन्मुख्यमन्त्र्यादयः सैन्याश्छात्रगणश्च शिक्षकततिर्न्यायालयास्याधिपाः। देशप्रेमिजना नमन्ति नितरां गीत्वा यदीयं यशो वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा॥
8
वन्दे भारतमातरं बहुतरं तत्संविधानं मुदा स्वाधीनाङ्कितराष्ट्रियं जनगणं रम्यं त्रिरङ्गध्वजम्। धर्माणां निरपेक्षतां नतशिरास् तत्सार्वभौमं प्रति वन्दे लोकमतं प्रदेशनिकरं तद्-राष्ट्रगीतं सदा॥