bindumAdhavAShTakam

Ashtakam

1

श्री गणेशाय नमः। कलिन्दजातटाटवीलतानिकेतनान्तर- प्रगल्भवल्लविस्फुरद्रतिप्रसङ्गसङ्गतम्। सुधारसार्द्रवेणुनादमोदमाधुरीमद- प्रमत्तगोपगोव्रजं भजामि बिन्दुमाधवम्॥

2

गदारिशङ्खचक्रशार्ङ्गभृच्चतुष्करं कृपा- कटाक्षवीक्षणामृताक्षितामरेन्द्रनन्दनम्। सनन्दनादिमौनिमानसारविन्दमन्दिरं जगत्पवित्रकीर्तिदं भजामि बिन्दुमाधवम्॥

3

दिगीशमौलिनूत्नरत्ननिःसरत्प्रभावली- विराजितांघ्रिपङ्कजं नवेन्दुशेखराब्जजम्। दयामरन्दतुन्दिलारविन्दपत्रलोचनं विरोधियूथभेदनं भजामि बिन्दुमाधवम्॥

4

पयः पयोधिवीचिकावलीपयःपृषन्मिलद्भुजङ्ग- पुङ्गवाङ्गकल्पपुष्पतल्पशायिनम्। कटीतटिस्फुटीभवत्प्रतप्तहाटकाम्बरं निशाटकोटिपाटनं भजामि बिन्दुमाधवम्॥

5

अनुश्रवापहारकावलेपलोपनैपुणी- पयश्चरावतारतोषितारविन्दसम्भवम्। महाभवाब्धिमध्यमग्रदीनलोकतारकं विहङ्गराट्तुरङ्गमं भजामि बिन्दुमाधवम्॥

6

समुद्रतोयमध्यदेवदानवोत्क्षिपद्धरा- धरेन्द्रमूलधारणक्षमादिकूर्मविग्रहम्। दुराग्रहावलिप्तहाटकाक्षनाशसूकरं हिरण्यदानवान्तकं भजामि बिन्दुमाधवम्॥

7

विरोचनात्मसम्भवोत्तमाङ्गकृत्पदक्रमं परश्वधोपसंहृताखिलावनीशमण्डलम्। कठोरनीलकण्ठकार्मुकप्रदर्शितादि- दोर्बलान्वितक्षितीसुतं भजामि बिन्दुमाधवम्॥

8

यमानुजोदकप्रवाहसत्त्वराभिजित्वरं पुरासुराङ्गनाभिमाननूपभूपनायकम्। स्वमण्डलाग्रखण्डनीययावनारिमण्डलं बलानुजं गदाग्रजं भजामि बिन्दुमाधवम्॥

9

प्रशस्तपञ्चचामराख्यवृत्तभेदभासितं दशावतारवर्णनं नृसिंहभक्तवर्णितम्। प्रसिद्धबिन्दुमाधवाष्टकं पठन्ति ये भृशं नरा सुदुर्लभं भजन्ति ते मनोरथं निरन्तम्॥

10

इति श्रीबिन्दुमाधवाष्टकं सम्पूर्णम्॥