shrIraghunAthAShTakam

Ashtakam

1

श्री गणेशाय नमः। शुनासीराधीशैरवनितलज्ञप्तीडितगुणं प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम्। सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्॥

2

निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम्। विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्॥

3

गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम्। विरुपाद्राक्षस्याः प्रियविरहसन्तापमनसं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्॥

4

विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं गतं पम्पातीरे पवनसुतसम्मेलनसुखम्। गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्॥

5

प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम्। विशुद्धामर्धाङ्गीं हुतभुजि समीक्षन्तमचलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्॥

6

विमानं चारुह्याऽनुजजनकजासेवितपद मयोध्यायां गत्वा नृपपदमवाप्तारमजरम्। सुयज्ञैस्तृप्तारं निजमुखसुरान् शान्तमनसं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्॥

7

प्रजां संस्थातारं विहितनिजधर्मे श्रुतिपथं सदाचारं वेदोदितमपि च कर्तारमखिलम्। नृषु प्रेमोद्रेकं निखिलमनुजानां हितकरं सतीतं सानन्दं प्रणत रघुनाथं सुरनुतम्॥

8

तमः कीर्त्याशेषाः श्रवणगदनाभ्यां द्विजमुखास्तरिष्यन्ति ज्ञात्वा जगति खलु गन्तारमजनम्॥

9

अतस्तां संस्थाप्य स्वपुरमनुनेतारमखिलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्॥

10

रघुनाथाष्टकं हृद्यं रघुनाथेन निर्मितम्। पठतां पापराशिघ्नं भुक्तिमुक्तिप्रदायकम्॥

11

इति पण्डित श्रीशिवदत्तमिश्रशास्त्रि विरचितं श्रीरघुनाथाष्टकं सम्पूर्णम्॥