Gorakshanatha Ashtakam
Ashtakam
1
योगीन्द्राप्तहितोपदेशविशदा देशार्थतत्त्वं शिरो ज्ञानं कर्म च दक्षिणोत्तरगता वक्षोभ्यपक्षावसौ। आत्मा योगवरः स्वरूपविषया पुच्छे प्रतिष्ठाचितो माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः॥
2
द्वैतं दक्षिणपक्ष एष विहितोऽद्वैतं विविच्योत्तरः पक्षो योगशिरो विशेषपरमा द्वैतं तदात्मा महान्। पुच्छं केवलभाव एक विदुषां हृत्पद्मनीड मह- न्माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः॥
3
ऐन्द्री दिक्षभपूर्वरूपमतुलं पुच्छं प्रतीची दिशो- दीतीयाम्यदिशावतीव विपुलौ दक्षौ हि पक्षौ हितो। आत्मेवापदिश दिशासु तरले सूर्येन्दुबिम्बे दृशौ माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः॥
4
शृत्यन्ते कथितं शिरो महदिदं पक्षोऽयमत्रोत्तरः सोयं दक्षिणपक्ष एव विपुलः स्थूलोऽयमात्माचलः। स्वच्छं पुच्छमिवेदमेव भुवन नीडं सरूपाभिधं माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः॥
5
प्राणों दक्षिणपक्ष एष वितती दानो भवत्युत्तरः पक्षो व्यानशिरो विशालहृदयं मध्यं समानोऽपरः। वायुः पुच्छमतुच्छमेव भजतां नीडं निकायो जडं माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः॥
6
भव्यं सत्मृतं च पक्षयुगलं वाणी शिरः प्राणिना मात्माऽशेषविशेषदोषरहितः श्रद्धेव पुच्छं फलम्। सर्वं तुच्छमनुप्रविश्य सहसा तुच्छं पुरा व्याकृतं माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः॥
7
पश्चैतद्यजुरेव साङ्गमखिलं नित्य शिरो निर्मल- मृक्सामात्मकवेदयुग्ममतुलं पक्षद्वयं पक्षिणः। आत्मादेशपरा ऋगेव सफलाऽथर्वैव पुच्छं परा माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः॥
8
श्रुत्या जन्यमिन्द प्रियं शितशिरो मोदप्रमोदावहं पक्षायुत्तरदक्षिणावसुभृद्रा, नन्दोऽयमात्मातुलः। पुच्छं ब्रह्म तदादिवाक्यगतया वृत्त्योपलक्ष्यात्मत- न्माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः॥
9
मानेन मानेन समाश्रितानां मानं समानं मम नाथ ! भूयात्। मानेन मानेन समाश्रितानां मानं समानं मम नाथ ! भूयात्॥
10
स्वस्ति श्री श्रेयः श्रेणयः श्रीमतां समुल्लसन्तुराम्॥
11
इति श्रीराजस्थानशेखरी भूतयोधपुराधिराज सिंहदेवविरचितं तैत्तिरीयोपनिषदनुसारं सम्पूर्णम्॥
12
(हंसचित्रम्)॥