Narmadashtakam

Ashtakam

1

श्रीनर्मदे सकल-दुःखहरे पवित्रे ईशान-नन्दिनि कृपाकरि देवि धन्ये। रेवे गिरीन्द्र-तनयातनये वदान्ये धर्मानुराग-रसिके सततं नमस्ते॥

2

विन्ध्याद्रिमेकलसुते विदितप्रभावे शान्ते प्रशान्तजन-सेवितपादपद्मे। भक्तार्तिहारिणि मनोहर-दिव्यधारे सोमोद्भवे मयि निधेहि कृपाकटाक्षम्॥

3

आमेकलादपर-सिन्धु-तरङ्गमाला यावद् बृहद् -विमल -वारि-विशालधारा। सर्वत्र धार्मिकजनाऽऽप्लुततीर्थदेशा श्रीनर्मदा दिशतु मे निजभक्तिमीशा॥

4

सर्वाः शिला यदनुषङ्गमवाप्य लोला विश्वेशरूपमधिगम्य चमत्कृताङ्गाः। पूज्या भवन्ति जगतां स-सुराऽसुराणां तस्यै नमोऽस्तु सततं गिरिशाङ्गजायै॥

5

यस्यास्तटीमुभयतः कृतसन्निवेशा देशाः समीर-जलबिन्दु-कृताभिषेकाः। सोत्कण्ठ-देवगण-वर्णितपुण्यमालाः श्रीभारतस्य गुणगौरवमुद्गृणन्ति॥

6

स्वास्थ्याय सर्वविधये धन-धान्य-सिध्यै वृद्धिप्रभावनिधये जनजागरायै। दिव्यावबोधविभवाय महेश्वरायै भूयो नमोऽस्तु वरमञ्जुलमङ्गलायै॥

7

कल्याण-मङ्गल-समुज्ज्वल-मञ्जुलायै पीयूषसार-सरसीरुह-राजहंस्यै। मन्दाकिनी-कनक-नीरज-पूजितायै स्तोत्रार्चनान्यमर-कण्टक-कन्यकायै॥

8

श्यामां मुग्धसुधा-मयूरवदनां रत्नोज्जवलालङ्कृतिं रामां फुल्ल-सहस्रपत्रनयनां हासोल्लसन्तीं शिवाम्। वामां बाहुविशाल-वल्लिवलया-लोलाङ्गुलीपल्लवां लालित्योल्लसितालकावलिकलां श्रीनर्मदां भावये॥

9

श्रीनर्मदाङ्घ्रि-सरसीरुह-राजहंसी स्तोत्राष्टकावलिरियं कलगीतवंशी। संवाद्यतेऽनुदिनमेकसमां भजद्भि- र्यैस्ते भवन्ति जगदम्बिकयाऽनुकम्प्याः॥

10

काशीपीठाधिनाथेन शङ्कराचार्यभिक्षुणा। कृता महेश्वरानन्द-स्वामिनाऽऽस्तां सतां मुदे॥