Devakali Ashtakam Devakali Mahima Stotram
Ashtakam
1
ते देवकालि ! कलिकर्म विनाशयन्ति वन्दारु-संहतिषु शर्म विकाशयन्ति। ज्ञानामृतानि हृदये परिवाहयन्ति ये तावकीन-पदपङ्कजमर्चयन्ति॥
2
ते देवकालि ! कुल-कीर्तिमुदञ्चयन्ति दिक्षु प्रताप-पटलीमवतंसयन्ति। विद्या-परिष्कृति-चणानपि मूकयन्ति येऽन्तः सदैव भवतीमधिवासयन्ति॥
3
ते देवकालि ! भुवनानि वशं नयन्ति शिष्टिं नृपेन्द्र-मुकुटेषु निवेशयन्ति। दुःखान्धकार-पटलानि विपाटयन्ति ये त्वामुदार-करुणामसृणां श्रयन्ति॥
4
ते देवकालि ! कवितामृतमूर्जयन्ति संसत्सु वाद-निपुणानपि तर्जयन्ति। कामादि-कर्कश-रिपु-प्रकराञ्जयन्ति ये तावक स्मरण-सौभगमार्जयन्ति॥
5
ते देवकालि ! कलिसम्पदमर्दयन्ति दुर्वासनान्ध-तमसानि विमर्दयन्ति। सौभाग्य-सारिणि ! जगन्ति पवित्रयन्ति ये श्रीमतीं हृदय-वेश्मनि चित्रयन्ति॥
6
ते देवकालि ! सुख-सूक्तिमदभ्रयन्ति विद्या-कलाप-कृषि-मण्डलमभ्रयन्ति। देशान्तरेषु चरितानि विशेषयन्ति ये शर्म-धाम तव नाम निरूपयन्ति॥
7
ते देवकालि ! कुकृतानि निकृन्तयन्ति संसार-दुःख-निगडानि विभञ्जयन्ति। शान्तिं परामधिमनः परिचारयन्ति ये तवत्कथामृत-रसान् सततं धयन्ति॥
8
ते नूत्नेन्दीवराभे ! भवभय-जलधिं शीघ्रमुल्लङ्घयन्ति प्रध्मातस्वर्णवर्णे ! निखिल-सुख-कलोल्लासमासादयन्ति। फुल्लन्-मल्ली-मतल्ली-प्रतिभट-सुषमे ! हर्षमुत्कर्षयन्ति श्रीमातः ! सततं ये तव भजनविधौ चित्तमायोजयन्ति॥
9
अयोध्या-प्रान्त-वासिन्याः सुदर्शन-कृतस्थितेः। देवकाल्याः स्तोत्रमेतत् पठतां घटतां शिवम्॥