Vanari Ashtakam

Ashtakam

1

माधुर्यं शास्त्रमारोग्यं दानं मूर्खो द्विजातिकः। वैद्यं सुजीर्णं वृक्षञ्च वानर्युक्तमिहाष्टकम्॥

2

माधुर्य प्रमदाजनेषु ललितं दाक्षिण्यमार्येजने शोर्यं शत्रुषु नम्रता गुरुजने धर्मिष्ठता साधुषु। मर्म्मज्ञेष्वनुवर्तनं बहुविधं मानं जने पण्डिते शाद्यं पापिजने नरस्य कथिताः पयन्तमष्टो गुणाः॥

3

शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयं स्वाराधितोऽपि नृपतिः परिशङ्कनीयः। अङ्के स्थितापि युवतिः परिरक्षणीया शास्त्रे नृपे च युवतौ च कुतो वशित्वम्॥

4

आरोग्यमानण्यमविप्रवासः सम्प्रत्यया वृत्तिरभीतिवासः। सद्भिर्मनुष्यैः सह सम्प्रयोगः षड् जीवलोकेषु सुखानि राजन्॥

5

दानं दरिद्रे विभवेऽपि शान्ति- र्यूनां तपो ज्ञानवताञ्च मौनं ईहानिवृत्तिश्च सुखोचितानां दया च भूते चिदिवं नयन्ति॥

6

मूर्खो द्विजातिः स्थविरो गृहस्थो गृही दरिद्रो धनवांस्तपस्वी। वेश्या कुरूपा नृपतिः कुधर्मो लोके षडेतानि विडम्बितानि॥

7

वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं द्विजं युद्धे कापुरुषं हयं गतरयं मूर्खं परिव्राजकम्। राजानञ्च कुमन्त्रिभिः परिवृतं देशञ्च सोपद्रवं भार्यां यौवनगर्वितां पररतां मुञ्चन्ति शीघ्रं बुधाः॥

8

सुजीर्णमन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः। सुचिन्त्य चोक्तं सुविचार्य यत् कृतं सुदीर्घकालेऽपि न याति विक्रियाम्॥

9

वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः पुष्यं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः। निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मन्त्रिणः सर्वः कार्यवशाज्जनोभिरमते कस्यास्ति को वल्लभः॥