Gangashtakam
Ashtakam
1
न शक्तास्त्वां स्तोतुं विधिहरिहरा जह्नतनये गुणोत्कर्षाख्यानं त्वयि न घटते निर्गुणपदे। अतस्ते संस्तुत्यै कृतमतिरहं देवि सुधियां विनिन्द्यो यद्वेदाश्चकितमभिगायन्ति भवतीम्॥
2
तथाऽपि त्वां पापः पतितजनतोद्धारनिपुणे प्रवृत्तोऽहं स्तोतुं प्रकृतिचलया बालकधिया। अतो दृष्टोत्साहे भवति भवभारैकदहने मयि स्तुत्ये गङ्गे कुरु परकृपां पर्वतसुते॥
3
न संसारे तावत्कलुषमिह यावत्तव पयो दहत्यार्ये सद्यो दहन इव शुष्कं तृणचयम्। पलायन्ते दृष्ट्वा तव परिचरानन्तकजना यथा वन्या वाऽन्ये वनपतिभयाद् वामनमृगाः॥
4
जना ये ते मातर्निधनसमये तोयकणिकां मुखे कृत्वा प्राणाञ्जहति सुरसङ्घैरनुवृता। विमाने क्रीडन्तोऽमरपतिपदं यान्ति नियतं कथा तेषां का वा जननि तव तीरे निवसताम्॥
5
शिवः सर्वाराध्यो जननि विषतापोपशमनं चरीकर्तुं गङ्गे कलिकलुषभङ्गे पशुपतिः। जटायां सन्धत्त ललितलहरीं त्वां सुरनदी त्वदन्या का वन्द्या परममहिता वा त्रिभुवने॥
6
जनस्तावन्मातर्दुरितभयतो बिभ्यति सृतौ न यावत्त्वत्तीरं नयनपथमायाति विमलम्। यदाप्तं त्वत्तीरं तदनु दुरितानां न गणना ततो गङ्गे! वन्द्या मुनिसमुदयास्त्वां न जहति॥
7
नमामि त्वां गङ्गे श्रुतिवनविहारैकनिपुणे जगन्मातर्मातस्त्रिपुरहरसेव्ये विधिनुते। त्वमेवाद्या दुर्गा जनहितकृते त्वं द्रवमयी स्वयं जाता देवि त्वमसि परमं ब्रह्म विदितम्॥
8
कदा गङ्गे रम्ये तटमधिवसस्ते शिवनुते शिवे दुर्गे मातः सकलफलदे देवदयिते। परेशे सर्वेशे श्रुतिशतनुते दक्षतनये सदाऽहं सञ्जल्पन्निमिषमिव नेष्यामि दिवसान्॥
9
गङ्गाष्टकमिदं पुण्यं प्रभाते यः पठेच्छुचिः। सर्वाभीष्टं ततस्तस्मै ददाति सुरनिम्नगा॥