Shachitanayashtakam

Ashtakam

1

उज्ज्वलावरणगौरवरदेहं विलसितनिरवधिभावविदेहम्। त्रिभुवनपावनकृपायाः लेशं तं प्रणमामि च श्रीशचीतनयम्॥

2

गद्गदान्तरभावविकारं दुर्जनतर्जननादविशालम्। भवभयभञ्जनकारणकरुणं तं प्रणमामि च श्रीशचीतनयम्॥

3

अरुणाम्बरधरचारुकपोलं इन्दुविनिन्दितनखचयरुचिरम्। जल्पितनिजगुणनामविनोदं तं प्रणमामि च श्रीशचीतनयम्॥

4

विगलितनयनकमलजलधारं भूषणनवरसभावविकारम्। गतिअतिमन्थरनृत्यविलासं तं प्रणमामि च श्रीशचीतनयम्॥

5

चञ्चलचारुचरणगतिरुचिरं मञ्जीररञ्जितपदयुगमधुरम्। चन्द्रविनिन्दितशीतलवदनं तं प्रणमामि च श्रीशचीतनयम्॥

6

धृतकटिडोरकमण्डलुदण्डं दिव्यकलेवरमुण्डितमुण्डम्। दुर्जनकल्मषखण्डनदण्डं तं प्रणमामि च श्रीशचीतनयम्॥

7

भूषणभूरज अलकावलितं कम्पितबिम्बाधरवररुचिरम्। मलयजविरचित उज्ज्वलतिलकं तं प्रणमामि च श्रीशचीतनयम्॥

8

निन्दितारुणकमलदलनयनं आजानुलम्बितश्रीभुजयुगलम्। कलेवरकैशोरनर्तकवेशं तं प्रणमामि च श्रीशचीतनयम्॥

9

इति सार्वभौमभट्टाछर्यविरचितं शचीतनयाष्टकं सम्पूर्णम् ।॥